प्रथमाध्यायस्य तृतीयः पादः । १०७ च्चाख्यातम् ।। ततश्च श्रतिमूलत्वाद्दाध्योदाहरणं न तत् । विकम्प एव हि न्याय्यस्तुल्यकशप्रमाणतः ।। विरुद्वत्वे च बाधः स्यान्न चेहास्ति विरुद्वता । नहि वेष्टनमात्रं नः स्पर्शश्रत्या विरुध्यते यदि द्विवाङ्गुलं मध्ये विमुच्योत्तरभागतः । वेष्टयेतैौदुम्बरो तच किं नाम न कृतं भवेत् । सर्वा वेष्टयितव्येति नहोवं च कृद्वचः । नास्या क्रियते कैश्चित्कर्णमूलेषु वेष्टनम् ॥ परिशब्दो ऽपि यस्तत्र सर्वतो वेष्टनं वदेत् । तद्दर्जितसमन्तत्वे सो ऽर्थवानेव जायते ॥ लोभमूलं च यत्तस्याः करूण्यते सर्ववेष्टनम्। तक्षोभः स्तुतरां सिडेन्मूलाग्रपरिधानयोः । अन्तरीयोत्तरीये चि योषितामिव वाससी । स्मरेत्कैशेयजातीये नोङ्गातैकं गणैर्विना ॥ प्राक् च लोभादिच् स्पर्शः कुशैरेवान्तरीयते । वेष्टितैषा कुशैः पूर्वं वाससा परिवेष्टयते । कुशवेष्टनवाकये च न किं चिद्धेतुदर्शनम् । . क्रीतराजकभोज्यान्नवाक्यं चाथर्ववेदिकम् । न च तस्याप्रमाणत्वे किं चिदप्यक्ति कारणम् ॥ यदि यज्ञोपयोगित्वं नेच्छाख्याथर्वणश्रुतेः । शान्तिपुष्ट्यभिचारार्था इोकब्रह्मर्विगाश्रिता
पृष्ठम्:तन्त्रवार्तिकम्.djvu/१७५
दिखावट