पृष्ठम्:तन्त्रवार्तिकम्.djvu/१३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
तन्त्रवार्तिके ।


पेण स्थितमिति शब्दैरपि तथैव प्रवर्तितव्यम् । इच् च स्तुतिवि
षयसिद्धार्थ प्रथयतीत्येतद्विधीयतइत्युक्तम् । तत्राह । नायं वि
धिः संभवति विषयानुपपत्तेः। प्रयोजकव्यापारो हि प्रतीयमान
स्तङ्गोचरः स्यात् । स चानुपात्तप्रयोज्यव्यापारत्वान्न प्रतीयते तेन
यथा यजेतेत्यनुक्त याजयतीति नोच्यते तथेच प्रथतेत्यनुक्त प्र
थयतीति न वाच्यम। न चेह परोडाशाः प्रथत तेन वा प्रथितव्यं
मित्यपादानमस्ति । तस्मिन्नसति प्रथयतीत्यनुपपन्नम्। तटपपा
दयति मन्त्राभिधानादिति प्रतीकगृहीतमन्त्रोपात्तप्रयोज्यव्या
पारं हि ब्राह्मणं प्रथयतीति विधत्ते । यश्च प्रथस्खेति ब्रतइत्यनेन
पुरोडाशकर्वकां क्रियामध्वर्युः प्रेष्यतीत्येतद्दर्शयति। यद्यपि च
संभाव्यमानक्रियाणां प्रयोज्यानामनुपादायापि व्यापारं शब्द
नप्रयोजकव्यापारः सिद्यतीतटप्युत्तरं संभवति तथापि तूत्त
रविभवादुपादानपूर्वकतैवोक्ता। अथ वा ऽस्तु यजमानप्रथने क
यमस्तीति मर्वस्तुतीनां किं चिच्छब्दगतमर्थगतं वालम्बनमुक्त
म। तदत्र किं निबन्धना स्तुतिरिति । तदभिधीयते । मन्त्रोक्त
मर्थमाश्रित्य स्तुतिः प्रवर्तिष्यते । मन्त्रेणाध्वर्युः पुरोडाशां बूत
इति न पुरोडाशप्रथनोपादानाभिप्रायं किं तर्हि पुरोडाशं ब्र
बीत्यरुते यज्ञपतिः प्रथतामिति प्रथखेत्यपीतिकरणः प्रभुत्यर्थे
न शब्दपदार्थतायै यद्य प्रथखेति बूतइत्यपि तदाद्यर्थ एवाप्रथ
तामिति ब्रतइत्यर्थः । यश्चैवं ब्रत स प्रथयत्यनेनैव गणवादान् ।
श्रथ वा तदाचष्टइत्येवं मख्यमेव प्रथयतीत्यर्थमाश्रित्य प्रथन

अवरुद्ध परम् ।। ४४ ॥