पृष्ठम्:तन्त्रवार्तिकम्.djvu/१२९

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


६१
प्रथमाध्यायस्य द्वितीय: पाद ।


र्तव्यं, तस्य हि क्रियमाणस्यायं मन्त्रः साधनं भवति तव चोरु
ते यज्ञपतिः प्रथ्यतामिति एतान्यशराणि प्रयज्यन्ते तथा ससि
यज्ञपतिः प्रथितो भवति इति गुणो लभ्यते । किमेतदेवास्य फल
मिति नेत्याह । स्तुत्यर्थमेव तद् द्रव्यसंस्कारकर्मखिति न्याया
त। यद्यप्यत्र करणमन्त्राभिहितत्वात्फलं कल्प्यते तथापि ब्रा
ह्मणे तावत्तत्संकीर्त्तनमेकान्तेन स्तावकम् । मन्त्रोपि तु लिङ्ग
विनियोज्यो न फलकल्पनायै प्रभवति । करणविभक्तिविनियु
क्तानां हि सकलोपयोगान्यथानुपपत्या फनुसाधनता युक्ता
लिङ्गानुमिता पुनः श्रुतिराकाङ्कावशेन क्रियाप्रकाशनमाचवि
नियोगायैव ज्ञायते । तेनेवंजातोयको मन्त्रो ऽपि प्रधानफल
सङ्कीर्त्तनामिका स्ततिरेवाभ्युपगन्तव्या । कथममति प्रथन
ति कस्यायं प्रश्नः किं विधुद्देशवर्तिनः पुरोडाशप्रथनस्याथार्थ
वादगतस्य यज्ञपतिप्रथनस्येति । द्विधा ऽपि चायुक्त पुरोडाशा
प्रथनं तावद्विधीयमानत्वादेव न प्रष्टव्यम। न च मन्त्राभिधाना
तस्यास्तित्वं किं तर्हि खरूपसङ्गावादित्युत्तरमप्यसंबद्भम् । अथ
पुनरितरार्थवादन्यायेन कथमरुदतीतिवत्प्रश्नः । तथाप्युक्तर
मसंबद्भम्। मन्त्रेणाध्वर्युः पुरोडाशमिति पुरोडाशेन संबद्यते न
यजमानेन । तस्मादग्रन्थ इति के चित्। उभयथा ऽपि विदम
दुष्टम्। अस्तु तावत्पुरोडाशप्रथने । तब हि याशिकानां केषां
चिदयं मन्त्रः कृत्वा प्रथनमभिमर्शने प्रयुज्यते सोयं खसिद्धान्तेन
पृच्छति कथमसति वृत्ते प्रथने प्रयुज्यमानेनानेन प्रथयतीति ।
तचाभ्युपेत्यवादेनोत्तरं मन्त्राभिधानादिति। यद्यपि प्रथनं प्रथ
मष्ठतत्वान्नाति मन्त्रेण नु सक्तयोच्घतइत्युपपन्नः शब्दार्थः ।
अथ वा सर्वप्रयोजकव्यापाराणां प्रयोज्यव्यापारपूर्वकत्वमर्थरू