पृष्ठम्:तन्त्रवार्तिकम्.djvu/१२८

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


च गृचमेधीये पञ्चमे पक्षे । अत्रापि च न प्राप्त सत्येषा प्रवर्तते प्रापकस्य शाखस्याननमितत्वात्कथं तर्हि यद्येतद्दाकयं नाभवि व्यक्तत एनं प्राप्स्यदिति । सर्वस्य प्रत्यक्षस्य वाक्यस्य नानुमानि कवाक्यप्रतिबन्धमानं फलमिध्यते । किं हि न पठितेन यस्या न्यतो ऽप्यर्थः सिद्धति तदर्थे गर्दभरशनानिवृत्तिः फलं कल्य ते। तेनैवं कल्प्यते कृत्वाचिन्तान्यायेन यदि नामैवं वाक्यं न भ वेत्ततः कीदृशमनुष्ठानं स्यात् । तत्र मन्त्रप्राप्तिस्तावदेकान्तेन सिद्धेोदश्चाभिधान्यां तद्वदेव तु गईंभरशनायामपि प्रसज्येत । यदा त्वनेन वाक्येन प्रत्यक्षेण नेराकाङच्यादविशेषविनियोग समर्थवाक्यानमानं निषिद्धं तदा केवलाश्वाभिधानीविषयत्वसि द्विरित्यपैौनरुतयादर्थवद्वाक्यम् । अर्थवादो वा ।। ४३ ।। यद्यपि प्रदेशान्तरस्यत्वान्मन्त्रविधानं न स्टूयते तथापि प्रथ मविधानात्तत्प्ररोचनया च सकलं वाक्यमर्थवत्तस्य तदेवी त्पत्तिवाक्यम्। ननु च पुरोडाशान्यथानुपपत्तिप्राप्तत्वात्प्रथनं न विधातव्यम् । नेतन्नियोगतः प्राप्तोति द्रुततरं हि पिष्टमप्रथित मपि प्रयेत । विधाने तु सति तादृशां कर्त्तव्यं येन प्रथयितव्यं भवति। एवं चाध्वर्युकर्तृकताऽपि सिद्यति। पद्यमानं चाध्वर्य वस्माख्यां लब्ध्वा कर्तृविशेषं नियच्छति। अर्थप्राप्त त्वसमाख्या तत्वान्न नियामक स्यात् । एवमर्थे च यद्यप्येकान्ततो ऽथर्यात्प्रा प्रयात्तथापि वाक्येनेव प्रापयितव्यम् । तस्मादुपपन्ना प्रथनस्तु प्तिः । एवमपि यज्ञपतिमेव तत्प्रथयतीत्यनेन स्तुतै सिङ्कायां म न्त्रग्रहणमनर्थकम्। नामन्त्रस्यैव स्तुत्यर्थमुपाद्दानात्प्रथन क