सामग्री पर जाएँ

पृष्ठम्:तन्त्रवार्तिकम्.djvu/१२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५६
तन्त्रवर्तिके


सार्यमाण इति यदेकान्तेनशक्यं कर्तुमुचारणं तदेव कार्यमि
त्यवधायत

अनित्यसंयोगात् ।। ३९॥

अर्थप्रकाशनपक्षे यस्य यो ऽर्थः स एव तेन प्रकाशयितव्यः । के
चिचानिवैरकर्माङ्गभतैश्चार्थरर्थवन्तो मन्त्रा लच्यन्ते । यथा।
किं ते कृएखन्ति कीकटेषु गाव इति (१)। श्रयं हि दृढेनाध्वणां
सरणेन विश्वामित्रस्यषं गम्यते । तेन किन्न कर्मार्थं धनं प्रार्थ
यमानेन्द्रो ऽभिहितः । त्रैलोक्याधिपते याः कीकटेषु जनपदेषु
गावस्तास्तव किं कुर्वन्ति। ते हि नास्तिकाः किं क्रतुनेति वदन्ते।
न किं चित्कर्मानुतिष्ठन्ति। अतश्च ता न शरं सोमसंस्कारार्थ
दहते न घर्मे तपन्ति । न घर्मतपने पयोटानेन साधनी भवन्ति ।
तस्मात्प्रमगन्दस्य कीकटाधिपतेर्यद्वेटो धनं तटस्माकं नैचाशा
खं नगरमाभर। हृग्रहोर्भपूछन्दसीति भकारः। अथ वा ऽस्मा
न्प्रति तद्विभहि धारय पोषय चेत्येतन्नेो मघवन् रन्धय साधय
अस्माकमिति। छान्दसं दीर्घत्वम् । यद्येतद्विवक्षितं तथा सत्या
दिमदर्थाभिधानाद्वेदस्य कृत्रिमत्वेनाप्रामाण्यं प्रसज्यते। न चा
त्याक्षरोचारणं फन्नवदाश्रयणीयमिति ।
मन्त्रोच्चारणं तावट्झरग्रहणेन निराकाङ्गीकृतं न साक्षा
त्क्रत्वङ्गत्वं प्रतिपद्यते। अक्षराणां च द्रव्यवदनितिकर्तव्यतात्म


(१) किं ते कृण्वन्ति कीकटेषु गावो नाशिरं दुन तपन्ति धर्मम् । आनेो मर

प्रमगन्दस्य वेदो नैचाशास्वं मघवन् रन्धयान ॥ ऋग्वेदे अष्ट. 3 अ. ३ व.२१ ।।