पृष्ठम्:तन्त्रवार्तिकम्.djvu/१२०३

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


तृतीयाध्यायस्य सप्तमः पादः। ११३७ दृश्यते इदं परस्याशिष्यमिति मम तु शिष्यमिति । कथं तर्हि सिद्धान्तसिद्धिः उच्यते। देशमात्रं वा प्रत्यक्ष ह्यर्थकर्म सोमस्य॥ १६ ॥ सोमधारणेन तावत्प्रत्यहं नैरपेक्ष्यं हविर्धनस्य सामिधेनौनां पुनः प्रकृतावेवग्निममिन्धनार्थत्वात् क्ळ्प्तं प्रयोजनमिति नास्य ङगित्वाप। हविर्दानविशे घसंबन्धपरे वाक्ये सामान्यसम्बन्धशक्ति मंपि कल्पय तः आग्नेय्यधिकरणतो वाक्यभेदो याज्यः । विशेषेण समा न्याक्षेपाद्वाक्यभेदं परिहरतः सिद्धसामन्यसंबन्धन सिद्धा न्तपक्षेणार्थापत्तिक्षयो दर्शयितव्यः । अस्ति हि प्राकृतदे शोपलक्षणत्वेन हविर्धनयोरन्यतरस्य प्राप्तिः । तत्र वि शेषमजं सुखेन विधीयते तस्मादपि देशलक्षण। समाख्यानं च तद्वत् ॥ १७ ॥ हविर्धनमिति अनन्यप्रयोजनस्य तादर्थव्यपदे शो धकल्पते । अन्यथा हि सामिधेनीधानमित्यपि । स्यात् । शास्त्रफलं प्रयोक्तरि तल्लक्षण त्वात्तस्मात्स्वयं प्रयोगे स्यात्॥१८॥ अतः परं समाख्यायाः सर्वैः सह विरोधाविरो धचिन्ता वत्तिष्यते'। होता हौत्रमित्यादयः कथं विनि योजिका इति । तत्र प्रथमं तावदुपोद्वातः क्रियते यदि १४३