पृष्ठम्:तन्त्रवार्तिकम्.djvu/१११०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०४४ सर्वपृष्ठायामेंत्र प्रतिकर्म स्विष्टकृदिडं कर्तव्यं प्रधानभे- दत् । तथा हि । सिद्धवप्रधानभेदमैन्द्रवयवसंस्कार हेतुमाह हिरैन्द्रवायवस्य भक्षयति द्विधैतस्य वषट्करो- तौति तस्माद्या बद्दषट्कारं चेषसंस्कार इत्युक्तोत्तरे दत्ते दृष्टान्तमनुभाष्य सूत्रेण परिवरो वक्तव्यः ऐन्द्रा यवे तु सकृद्भक्षणे प्राप्ते वचनाद् हिर्भक्षे न प्रधानभेद निमित्तो हेत्वधिकरणे हेतोर्निराकृतत्वात् । एवं च सति पूर्वाधिकरणशेषणैव सत .समभक्षसामान्यविचरस्मा रणान्न ब्रामकोपो भविष्यतीति । सोमे ऽवचनाङ्गदो न विद्यते॥१६॥ ऐन्द्रवयवे तावद्विशिष्टविधनादपि भक्षे भवेत् अथेतरग्रहगते चमसस्थे च सोमे संदेहः । किं भवे ऽस्ति नेति तत्रापि सर्वतः परि वरमाश्खिनं भक्षयतीत्यादिषु ऐन्द्रवायवन्याय एव स्यात् । इदं तु सर्वथा तत्वपि वि चार्यते किं प्राप्ते भक्षे विशेषणमाचं बचनेन विधीयते ठत विशिष्ट विधानमेतदिति । कश्चात्र विशेषः स यदि वाचनिकस्ततो याचद्वचनमेव कर्तव्यो ऽथ त्वन्यत: कु तश्चित्तत एकदेशस्थमपि लिङ्ग स्थलपुलकन्यायेन स मस्तद्योतकं भविष्यति । प्रयचे हे पक्षाः संभवन्ति कि मन्यार्थदर्शननां प्रत्यपेक्षवदविधनाच्च नैव भवः उत प्रायभावादन्यार्थदर्शनान्येव वचनीकृत्य यववचनं भव । उत समाख्यावषट्कारोमाभिषवनिमित्तो पि भव इति। किं प्राप्तम् अर्थसाकंप्रस्थाय्यसपमणग्रहणवम् समस्तमसंयोगाच्छेष एव नास्ति कुतः पुनर्भव इति । ० ०