पृष्ठम्:तन्त्रवार्तिकम्.djvu/१०६५

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


२९५ तृतीयाध्यायस्यं चतुर्थः पादः। क्रियमाणः कथं नाम विधिना नावगम्यते । यदि प्रतिग्रहो न विधीयेत कथं तस्येतिकर्तव्यत विधीयेत । किमिति वा तस्मिन्नकृते कर्मवैगुण्यं स्यात् । अन वदामः । सादृत्विस्थो दक्षिणां दद्यादिति दानं विधीयते । लोभादेवार्जनाङ्गस्वाप्राप्तस्तेषां प्रतिग्रहः ॥ न हि दद्यादित्यस्य प्रतिगृह्यादित्ययमर्थो भवति । भवेदपि सामर्यात् यदि तदाक्षेपमन्तरेण दानविधि नॅपपद्यत । स तु लोभप्राप्तप्रतिग्रहबलेनोपपद्यमानो“न शक्नत्याक्षेक्षुम् । न हि विधिशतेनापि तया पुरुषः प्रव र्तते यथा लोभेन । यद्यपि च समाप्तिश्चोद्यते तथा अपि ददृब्यापार एवासौ परस्वत्वापादन नाम । वे हि त नापि व्यापारावेकः प्रतिग्रहीतुः स्वीकरणमपरो दातुः तत्समर्थाचरणं समर्पणादिरूपम् । तन्वमेव विधास्यते नापरम् । तेन यथा सोमक्रये विधीयमाने ऽर्थलोभेन प्राप्त विक्रयो न विधीयते न च कर्माऊँचे भवत्येवमिह प्रतिग्रहं न विधास्यते नाप्यङ् भविष्यति । यदपीति कत्तव्यतविधानं तदर्थप्राप्तानुवदेनैव भविष्यति। यद हृत्यर्थं दक्षिणां प्रतिगृह्याप्तदित्थमित्यं चेति । न न्वेवं सति प्रतिग्रहस्य पुरुषार्थत्वान्मन्वादीनामपि पुरु षार्थत्वमेव प्राप्नोति । नैष दोषः । प्रकरणासामध्यदेव मितिकर्तव्यताकप्रतिग्रहावसानं दानं क्रतोरुपकरोती- त्यध्यवसानात् । तेन प्रतिग्रह संबन्धे ऽपि दानस्यैवतिक तव्यत। तच्च विधि लक्षणमिति नेतव्यो । तत्र चो दिते ऽपि प्रतिग्रहे गवांदेनां प्रतिषेधो ऽपि नास्तीति न कश्चिद् दोषः । अश्वप्रतिग्रहीय तु प्रतिषिद्धत्वद्यो नाम