९९७ तृतीयाध्यायस्य चतुर्थः पादः। प्रतिगहो न दोषेण विशेष्टं शक्यत इति विधीयमानष्टि स्तुतिमात्रपरे दोषसंकीर्तने वैदिको ऽपि निमित्तं भ वेत् । उ व्यते । विशेषणतया नैव दोषो ऽयं कल्प्यते मया । दोषनिर्घातकार्येष्टिसमर्याल्लौकिकाङ्गता ॥ न ठेवं क्रियते दोषवयो ऽश्वप्रतिग्रहः किं तर्हि निमित्त वेलायां तावत्सामान्यमात्रमेव गृह्यते । यद । त्विष्टिभावनायाः प्रयोजनाकाङ्का भवति तदा ऽन्यस्य । स्वर्गादे: कमपकारस्य वा संनिध्यपेक्षयोरभावादस्य च दोषस्य समानंघायोपात्तत्वेन प्रत्यासत्तेः स्वरूपेण कर्मा नपेक्षितत्वेन फलत्वप्रतिपय संभवात्पुरुषौपयिकं विधि- संबन्धाठी निघतमपेक्षमाणस्यपनीयमानतया कर्मणा मंबन्धः । एकेन च नैरा काच्ये संभवति न प्रयोजना न्तरं कल्पयितुं शक्यम् । अतश्च यत्र दोषनिर्घातात्मकं फलं तदीयमिष्टिः। यत्र च दोषस्तत्र निघतो ऽपि प्र तिषेधानुसारी । स च प्रतिषेधो लौकिकस्येत्यन्तरेणा पि विशेषणमर्थघशात्तस्यैव निमित्तत्वम् । एतद्दर्शयति वरुणप्रमोचनं त्विदं कर्म तल्लौकिक भवितुमर्हति । यह् भाष्यकारेण दोषं प्रदर्शयतोक्तं तल्लौकिके प्रवप्रति ग्रहे शादन्यस्मादं पापकर्मणः क्रियमाणे भवतीति । पुनश्च वैदिके ऽप्ये तत्समानमिति मन्यमानेन ननु वैदिके 'ऽप्यप्रतिग्राह्यान्प्रतिगृहतः पापग्रहणमस्तौति चोदयि त्वा परिहर उत्तः । भवेदेतदेवं यदि प्रतिग्रहीतुरिष्टि: स्यात् खलु दातुरिति । स लौकिके ऽप्यविशि ष्टः । तथा हि । लौकिके ऽपि तु यो द।ता झदादिर्न स दोषवान्।
पृष्ठम्:तन्त्रवार्तिकम्.djvu/१०६३
दिखावट