पृष्ठम्:तन्त्रवार्तिकम्.djvu/१०४७

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


तृतीयाध्यायस्य चतुर्थः पादः। ९८१ षात् अतश्च यथैव यजमानेन त्रीहिमयं संकल्य न यव मया दतव्य । तथैवाध्वर्वादिभिरप्यनन्तरं पलं करि ष्याम इत्युक्ता न ला|घघादिवशेन पुनर्विसंवदितव्यम् । यदपि च पुनः संस्कारार्थं किञ्चित्तदपि क्रत्वर्थाशेनैव वर्जयितव्यम् । ननु च प्रतिषेधार्थं गुणभूतः पुरुषः तत आध्वर्येव समाख्य नियामिकेति प्रणीताप्रणयनविट्- ध्वर्युरको ऽन्तप्रतिषधमवलम्बेत । सत्यमवलम्बेत यदि प्रतिषधथं नुठे यो भवेत् । अयं त्वनुष्ठानाभावात्मक त्वान्न कर्तविशेषमपेक्षते । धृत्यैव च प्रतिषेधः प्रया सं- बन्ध: स यत्र प्राप्तिस्तत्र स्वसामध्येन गच्छन् न शक्यते समाख्यया वारयितुम् । ननु वदेदित्येतावद्दिध्योशमात्र मालोच्यमानं समाख्या नियंस्यति ततश्च प्रतिषेधो ऽपि तदनुसरित्वान्नियतो भविष्यति । नैतदेवम् । पर्यवसि- ते हि शास्त्रार्थं तत्कर्तरपेक्षायां सत्यां समाख्य बत रति। न च वदेदित्येतावतः शास्त्रथैल्वं विज्ञायते । प्र तिषेधसंबन्धाद्धि तदनुवादत्वेन स्थितम् । न चानूद्यमा नस्य श्रुतमपि विशेषणं भवतीति ग्रहा धिकरणे साधि तम् । किमुत समाख्यया विधीयमानपदार्थकर्तविशेष- संबन्धमान एव व्याप्रियते । तस्मादद्यमानत्ववदनं न विशेष्यते । प्रतिषेधो ऽपि तद्भामी विशेष्टं नैव शक्यते ॥ तस्मादस्ति सर्वत्र प्रयोजनमतः सम्यक् विचारितमिति सिद्धम् । अहीनवत्पुरुषस्तदर्थत्वात् ॥२० ॥