पृष्ठम्:तन्त्रवार्तिकम्.djvu/१०४६

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


९८० तन्मवर्तिके । विशेषमूलेष्वपि पुरुषधर्मेषु न तन्निमित्तं प्रायश्चित्त क त्त व्यम् । यदा तु फलकल्पनभयात् प्रकरणाच क्रतुयु तपुरुषधर्मा भवन्त्येवं जातीयका इति पूर्वः पक्षः शुद्ध क्रतुधर्मत्वं च सिद्धान्त : तदोभयवपि यजुर्वेदिकय- सुवेषनिमित्तमेव प्रायश्चित्तमिति प्रयोजनान्तरं वक्त व्यम् । तदुच्यते । विधयो ऽपि हि पूर्वस्मिन्पक्षे संस्कारतां गताः। तं सर्वे याजमानाः स्युसंस्कारवगवत् ॥ -सर्वं हि समिदादयः क्रत्वन्तरगताः स्त्रोत्रशखजपाद यश्च पूर्वपक्षवादिन: पुरुषसंस्काराः ते च याजमानास्त प्रधानत्वत्कर्मवदित्य नेनाधिकरणन यजमानाः स्युः तत्र समीौदादौनां यागात्मकत्वाद् द्रव्यत्यागव्यापारेण दौवणोयादिवदुभयथा अपि याजमानत्वात् । तद्ददेव च यजमानविठ्ठडवपि तन्त्रेण प्रयोग इति न कश्चिद्विशेषो दृश्यते । ये तु स्तोत्रशखजपादयस्ते गुणभूत कर्तृकर्मनिय मसमथां प्रधाननियमानधिकृतां प्रधानौक़ा त्रादिममा- ख्यां बाधित्वा दन्तधावनादिवद्यजमानकर्तका भवेयुः। यजमानविवृद्धौ च साधारणाद्व्यत्यागन्यायेन तन्त्रत्वं न सम्भवतीति प्रतियजमानं भिद्येरन् । प्रतिषेधध्वपि च यदा विध्यंश एवमवधारितः क्रतुयुक्तपुरुषोपकार्थवृतव दनमिति तदा अस्यैवान्वृतविशिष्टप्रतिषेधादयमर्थो भवति यजमानेनात्मसंस्कारार्थमाशौः प्रयोगादिषु यदुच्यते तत्र वैकल्पिकावधारणे स्वरूपोच्चारणे व मृषात्वं न कर्तव्य. मन्यत्र त्वन्येषां च यथेष्टवादित्वमिति । शवक्रतुधर्मप्र तिषेधे तु यावत् क्रतौ किं चिद्वदनं यजमानस्यर्विजां वा ऽन्दृतं प्रसज्यते तत्सर्वं न कर्तव्यं क्रतु संबन्धित्ववावि शे