पृष्ठम्:तत्त्वसङ्ख्यानम्.djvu/९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मेदेनैव तत्त्वविभागः कार्य इत्याशयः । भावाभावभेदेन तत्वविभागो न कार्यः । अन्यथेति । सर्वविविक्ततया वेदनमनङ्गीकृत्य स्वतन्त्रतत्वस्य यथाभावेषु प्रवेशः तथा विभागकरण इत्यर्थः । पूर्वोक्तमेव वैयथ्यं स्मारयति । एवं सतीति ॥ दूषणान्तरमाह । भगवदिति । सर्वस्येति॥ भावाभावनित्यानित्यरूपवेतनवर्गस्येत्यर्थः । अस्वातन्त्र्येति । अख तन्त्रस्य चेतनप्रभेदरूपत्वादि (ति भावः) त्यर्थः । अस्मिन्पक्ष इति । तत्वै द्विविधं स्वतन्त्रं परतन्त्रञ्च परतन्त्रै द्विविधं भावः अभावश्चेति विभागकरणे स्वतन्त्रतत्वस्य भावत्वमविदितंस्यात् भावस्य परतन्त्रभेद रूपत्वात् इत्यर्थः । सममेवेति । तथाचैवं साम्ये भाबाभावादिनैव तत्वविभागः क्रियतामविशेषादिति भावः । अविशेषोऽसिद्ध इत्याह । पुरुषार्थेति । स्वतन्त्रास्वतन्त्रभेदेन तत्त्वद्वैविध्यज्ञानस्य मोक्षोपयोगि तायाः “य एतत्परतन्त्रन्तु' इत्यादिना प्रमितत्वाद्न्यस्य तदभावात् इति भावः । ननु अथापि न भवदुक्तरीत्या तत्त्वविभागो युक्तः । तथाहि । तत्त्वं द्विविधम् । स्वतन्त्रं अस्वतन्त्रञ्चेति । अस्वतन्त्रै द्विविधं भावोऽ भावश्च । भावोऽपि द्विविधः । चेतनः अचेतनश्च । अचेतनः त्रिविधः । नित्यः अनिलयः नित्यानित्यश्रेति विभागकरणे प्रध्वंसात्यन्ताभावरूपा भावस्य नित्यत्वं नोक्तं स्यात् । नित्यस्य भावप्रभेदरूपाचेतनप्रभेदरूप त्वादित्यर्थः । तथा चेतनस्य नित्यत्वं नोत्तंस्यात्। नित्यस्यावेतन प्रभेदरूपत्वात्। तथा स्वतन्त्रतत्त्वस्य भावत्वं नोक्तं स्यात् । भावस्या स्वतन्त्रप्रभेदरूपत्वादित्याशङ्कय त्वदीयविभागकरणे एतत्समानमित्याह ॥ अभावादीनामिति । प्रथमादिपदेन चेतनस्वतन्त्रतत्वयोम्रहणम् । द्वितीयादिपदेन भावत्वग्रहणम् । तथा चव ध्वंसात्यन्ताभावरूपाभावयोः चेतनानाञ्च नित्यत्वानुक्तिः स्वतन्त्रतत्त्वस्य भावत्वानुक्तिश्रेत्यर्थः । इद् मुपलक्षणम् । प्रागभावस्यानित्यत्वानुक्तिः अनित्यस्य भावप्रमेदरूपा चेतनप्रभेदरूपत्वादिति द्रष्टव्यम् । समेवेति । तत्धं द्विविधं भावः अभावश्च । भावोऽपि द्विविधः । नित्यः अनित्यश्च । नित्योऽपि द्विविधः ।