पृष्ठम्:तत्त्वसङ्ख्यानम्.djvu/९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३१ इत्यर्थः । पुरुषार्थेति । मूलकृदुक्तटीकाकृदुक्तविभागद्वयपक्षेऽपि कस्य चिदर्थस्याज्ञानसाम्येऽपि मूलकृदुक्तविभागपक्षः पुरुषार्थोपयोगी अवश्य ज्ञातव्यः प्राधान्यसर्वविभक्तत्वयोः स्वतन्त्रतत्त्वज्ञानोद्यात् टीकाकृत्प्रद शैितविभागपक्षे तयोरज्ञानात् भावत्वज्ञानस्य च पुरुषार्थानुपयोगेन तदज्ञानेऽपि दोषाभावात् । मूलकृदुक्तविभागपक्षेतु पुरुषार्थोपयोगित्व विशेषभावादित्यर्थः । अथाप्यनुपपत्तिरस्तीत्याशङ्कयाह । अभावादीना मिति । अत्यन्ताभावध्वंसयोर्नित्यत्वं प्रागभावस्यानित्यत्वं त्रयाणाम चेतनत्वं पारतन्त्र्यमचेतनेऽपि केषाञ्चिदनित्यत्वं पारतन्त्र्यमित्यादिकमपि टीकाकृतप्रदर्शितविभागे । मूलकृदुक्तविभागे विष्णोर्भावत्वमेव नोक्त मिति कस्यचिदनुक्तिरुभयत्र समैव । प्रत्युतात्र बहूनां अनुक्तिः । तत्र भावत्वस्य अनुक्तिरेवेत्यर्थः । तस्मादिति। अनुक्लयोः साम्यान्मूलोक्त विभागे विशेषसत्वाञ्च मूलोक्तविभाग एवास्तु इत्यर्थः ॥ श्री-यद्यपि तत्त्वस्य भावाभावतया द्वैविध्यं शक्यते वक्तुम् । तथाप्यस्य वैयथ्यदयमेव विभागो न्याय्य इत्युक्तमननुसैद्धानस्तत्वस्य भावाभावतयैव विभागः कुतो न क्रियत इत्याशयेन शङ्कते ॥यथा भावेष्विति । तद्धीति । स्वतन्त्रतत्त्वमित्यर्थः । सर्वविविक्तमेवेति ॥ सर्ववैलक्षण्येनैव नतु सर्वसाधारण्येनेत्यर्थः । तदर्थं स्वतन्त्रास्वतन्त्र वि-स्वातन्त्र्यास्वातन्त्र्याभ्यामेव विभागकरणे पूर्वोक्तयुक्तिमपि स्मारयति--।।भगवद्यतिरिक्तस्येति। यद्यपि * यद्यपी'त्यादिना भावत्वा भावत्वाभ्यां विभागकरणं पूर्वमाशङ्कितम् । तथापि स्वतन्त्रायत्ततया परतन्त्रस्य ज्ञानं निःश्रेयसोपयोगीति वक्तुं पूर्वमाशङ्कितम् । इदानीन्तु स्वतन्त्रस्य प्राधान्येन सकलविविक्ततया झानं निःश्रेयसोपयोगीति निवेदयितुमिति भेद इति द्रष्टव्यम् । वे-पुरुषार्थोपयोगेति । भगवह्यतिरिक्तस्य सर्वस्य स्वतन्त्र प्रमेयायत्ततया ज्ञानं यथा निःश्रेयसहेतुत्वेनोपयोगि, न तथा स्वतन्त्र तत्त्वस्य भावत्वादिज्ञानमित्यर्थः ।