द्विधेतरदित्युक्तिविरोध इत्यत आह । परतन्त्रमिति । इत्येवंपरइति । इत्येवमेतादृशो न्यूनाधिकसंख्याव्यवच्छेदः परः उद्देश्यः यस्य स तथा तत्प्रयोजक इति यावत् । विभाग इति । भावाभावौ द्विधेतरदित्यने नोक्त विभाग इत्यर्थः। इति शब्दानन्तरं एवं पर इत्यस्यानुषङ्गः। इत्येव मेतादृशोऽयं इतरव्यवच्छेदस्तत्परो न भवतीत्यर्थः । श्री-कार्यवैचित्र्यमेव दर्शयति । तथा च प्रतीतिरिति। स न शुकु इति । इदं ज्ञानं न प्राथमिकं प्रतियोगिज्ञानादिविलम्बादिति भावः । अस्ति घटाभाव इति ।। घटाभाववद्भूतलमित्यर्थः । अभाव विशेषणकं सत्ताविशेष्यकं ज्ञानमेतत् । इदमपि ज्ञानं न प्रथमभावि । विशेषणस्याभावस्य पूर्व अज्ञानात् इति भावः । नास्ति अत्र घट इति झानेतु घटाभावस्य विशेष्यत्वात् तज्ज्ञानस्य अकारणत्वात् न विलम्ब वे-कार्यमेव क्रमेणोदाहरति । एवमिति । ननु–भावलक्षणे घटाभाचोऽस्तीतिवाक्यात् प्रथममेवास्तीत्युपलभ्यमानेऽभावेऽतिव्याप्ति रिति वाच्यम् । तत्रापि घटाभाव इत्यवान्तरवाक्यार्थभूतप्रतिषेधाकार प्रतीत्युत्तरकालमेव तदस्तित्वप्रतीतेः । अत एव घटो नास्तीति वाक्यात् प्रथममेव घटस्य नास्तित्वाकारेण प्रतीतेरभावलक्षणस्यातिव्याप्तिरिति परास्तम् । ननु—भावलक्षणे तथाप्यतिव्याप्तिः ॥ तथाहि-मेदो हि धर्मिखरूपमेव, स च धर्मिग्रहेण न गृह्यत एव । उक्तं हि–“स्वरूपं वस्तुनो मेदो यन्न तस्य ग्रहे ग्रहः” इति । न च प्रथमोपलब्धौ सप्रति योगिकप्रतिषेधाकारेण प्रतीयमानत्वं विवक्षितम्। तथा च स्वरूपाकारेण प्रतीतावपि नातिव्याप्तिरिति वाच्यम्। प्रथममेव सामान्यत विलक्षणत्वेन वस्तुप्रतीत्यङ्गीकारात् । उत्तं हि–“प्रायः सर्वतोविलक्षणं पदार्थस्वरूपं दृश्यत ?” इति । तथा च कथं नातिव्याप्तिरिति । मैवं विशेषतः प्रतिषेधाकारेण प्रथमं प्रतीयमानत्वस्य अभावलक्षणत्वेन विवक्षि तत्वात् । खरूपेण भेदप्रतीतावपि प्रथमं विशेषाकारेण प्रतीत्यभावात् । अत एव अनन्तरप्रतीतिः “न शुक्ल ' इति विशेषाकारेणैवोदाहृता । उत्तं हि–“को विरोधः खरूपेण गृहीतो भेद एवतु । अस्य अमुष्मादिति पुनः विशेषेणैव गृह्यते' ॥ इति ॥
पृष्ठम्:तत्त्वसङ्ख्यानम्.djvu/९६
दिखावट