पृष्ठम्:तत्त्वसङ्ख्यानम्.djvu/८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्यादिदमारोपितस्यान्यत्र पत्तामभ्युपगच्छतां दूषणम् । अत्यन्तामदेव रजतं दोषवशाच्छुक्निकायामारोप्यत इति वादे तु नायं दोषः । एतेन भाविपाकरागः कुम्भः श्यामतादशायां रक्त पित्तिना रक्ततयोपलभ्यमानस्तत्वं स्यादित्यपि पगस्तम् । भाविनः प्रमेयत्वेऽपि पूर्व (स्यातथात्वात् ।) स्य तथात्वाभावात् । धर्मिणस्त (थाभा) त्वभावाङ्गीकारादिति । आपणस्थे रजते रजतत्वादैः सत्वादिति भावः । स सम्बन्धः । न हि गृह इति । किन्त्वन्यत्र सत्वात्प्रमितिविषय एवेत्यर्थः । तद्वत्प्रकृतेऽपीति भावः । रा–। नायं दोष इति । आरोपितस्य प्रमेयत्वप्रसङ्गदोषो नेत्यर्थः । अन्यदपि खण्डनोत्तं निराह । एतेनेति । अत्यन्तासत एव भ्रान्तौ भानाभ्युपगमेनेत्यर्थ । तत्वं स्यादिति । तत्र रागसम्बन्धस्य सत्वादिति भावः । अतथात्वादिति । अत्यन्तासत्वेन तस्य प्रमाविषय त्वाभावादिति भावः । धर्मी घटोप्यप्रमेयः किमित्यत आह । धर्मिण इति श्री-भ्रमविषयस्य रजतस्यात्यन्तासत्वाङ्गीकारात्तद्वयावृत्यैप्रेति पदं सार्थकमित्याशयेनाह । स्यादिमिति । अभ्युपगच्छतां तार्किका णाम् । अन्यत्र विद्यमानमेवान्यत्रारोप्यत इति तैरङ्गीकृतत्वादिति भावः । रक्तपित्तिनम कश्चिन्नेत्रदोषः । तेनेत्यर्थ । तत्वंस्यादिति । रक्तत्वप्रकारकप्रमितिविषयत्वादित्यर्थ । कथं प्रमितिविषयत्वमित्यत तदुपपादनार्थमुक्तं भाविपाकराग इति । पाकस्तेजस्संयोगः । तथा च भावी यः पाकः तेन रागो रक्तरूपवानित्यर्थः । तथा च पाकेन रक्ततायाः उत्तरत्र जनिष्यमाणत्वेन सत्यत्वादिति भाव । भाविनः भाविपाक रागस्य कुम्भस्य । पूर्वस्य श्यामतादशायां रक्ततयोपलभ्यमानस्यातथा त्वात् प्रमित्यविषयत्वात्।. कुत इत्यत आह ।॥धर्मिणः तथाभावादिति। अत्राकारश्लेषः कार्यः । तथा च रक्तत्वेनाभावादित्यर्थ । तथा च