पृष्ठम्:तत्त्वसङ्ख्यानम्.djvu/७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

टीका ननु शुक्तिरजतादिकं कथं न तत्त्वम् । न हि धर्म वा रजतत्वं वा न प्रमेयम् । नापि तयोस्सम्बन्धः । शुक्तिव्यक्ती रजतत्वस्य स नास्तीति चेन्माभूत् । न हि गृहे देवदत्तो नास्तीत्ये तावता न प्रमेय इति । मित्यसङ्गतम् । धर्मिभूते तत्त्वे घटादावव्याप्तिश्चेतिदूषणानवकाशः । अनारोपितं तत्त्वमित्यभिप्रेतत्वेन त्वदीयदूषणस्य छलत्वादिति भावः । रा-न्यायमतावष्टम्भेन खण्डनकृदुक्तखण्डनं शङ्कित्वा सिद्धांत दिशोत्तरमाह । नन्वित्यादिना । नायं दोष इत्यन्तेन । धर्मवेति । रजतंवेत्यर्थः । पट्टणादौ रजतस्य तत्र रजतत्वस्यचानुभवात्तस्यैव सत्य रजतस्यान्यत्रारोपादिति भाव । प्रमेयं प्रमाविषय इत्यर्थः । तादात्म्या रोपाभिप्रायेण धमवेति । संसगरोपाभिप्रायेण रजतत्वं वेत्युक्तम् । । तयोरिति । रजतरजतत्वयोस्सम्बन्धः तादात्म्यरूपः संसर्गरूपोवा प्रमेय इत्यनुषङ्गः । सत्यरजते तस्य प्रमीयमाणत्वात्तस्यैव चव शुक्तौ प्रतीत्यभ्युपगमादिति भावः । शङ्कते । शुक्तीति । स इति । सम्बन्ध इत्यर्थः । श्री-ननु इदं रजतमिति भ्रमविषयस्य (सत्वे) सर्वस्य सत्वेन व्यावत्र्याभावात्प्रेति पदं व्यर्थमिति भावेन शङ्कते । नन्विति । तदुप पादयति । न हीति । सम्बन्धः समवायरूपः। न प्रमेयमित्यनुवर्तते। वि—सिद्धान्तिनं नैयायिकं मत्वा शङ्कते । नन्विति । शुक्ति रजतादेरपि देशान्तरे सर्वाशप्रमाविषयत्वादिति भावः । स–॥ नहीति । इदं रजतमिति प्रतीतौ संसर्गारोपपक्षे धर्मी शुक्तिकादिः । प्रकारस्तु रजतत्वं संबन्धः समवायः । तादात्म्यारोपपक्षे धर्मीतूक्तएव । प्रकारस्तु रजतम् । तादत्म्यं संबन्धः । एवञ्च धम शुक्ति शकलं न प्रमेयमिति न किन्तु प्रमेयमेवेत्यर्थः । तथा रजतत्वं न प्रमेय मिति न । किन्तु प्रमेयमेवेत्यर्थः । तयोः शुक्तिरजतत्वयोः संबन्धः समवायलक्षणः । न प्रमेय इति विपरिणमितलिङ्गेन नञ्जन्वेति ।