पृष्ठम्:तत्त्वसङ्ख्यानम्.djvu/६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

40 एतद्रन्थपिपठिष्णामुपयोगाय अन्ते परिभाषिकपदानां क्रमणिकानिबद्धः शब्दकोशः सार्थः पृथक् प्रादशेि । वर्णानु मुद्रितग्रन्थेऽस्मिन् यथा कोऽपि दोषो नापतेत् तथा यथाशक्ति परिशोधनादिकमकारि । शुद्धाशुद्धशब्दा अपि केचनान्ते निर्दिष्टाः । अथापि प्रामादिकाः दोषाः यद्यवलोक्येरन् तर्हि ते सदयं सहृदयै क्षन्तव्या इति सानुनयं प्राथ्र्यते । प्रभामुद्रणालयाधिकारिभिरिदं ग्रन्थरलमतिसुन्दरं मुद्रितम् । अतस्तेभ्यो मदीयाः सन्तु हार्दिका धन्यवादा इति विरमामि विस्तरात् । इति शम् कल्याणनगरी भाद्रपदशुक्कुचतुर्दशी क्रोधिवत्सरः १९६४. भवदीयः यम्. यस्. रङ्गनाथाचार्यः