पृष्ठम्:तत्त्वसङ्ख्यानम्.djvu/५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

36 (श्रीमद्राघवेन्द्रगुरुवरेण्यविरचितः भावदीपः, श्रीश्रीनिवासतीर्थविर चितं विवरणञ्चेति) समूलटीकाग्रन्थेऽस्मिन् समायोजि । विषमस्थलीय वाक्यार्थविशेषव्युत्पादकाश्चेतरटिप्पणीभागाः यथाग्रन्थं तत्र तत्र संयोजिताः । अस्मिन्नवसरे अवश्यमेव निवेदनीथै किञ्चिद्विद्यते यस्या कथनादवचनन्यूनता समापद्यत । श्रीमव्द्यासराजमठीयस्य रामकृष्णप्पनास्रो महाशयस्यौदार्यमखवं विवरीतुं मानसमभितुष्यति । न केवलं महीश्शूरदेशे अन्यत्र कापिपत्तने कस्याप्यन्यस्य महानुभावस्य नास्रा समीरसमयसंवर्धनैकपरायणा पाठ शाला एतावत्पर्यन्तं संस्थापिता अवलोक्यते । करालकलिकलुषितेऽस्मि न्कालेऽपि कल्याणलगरेऽस्मिन् श्रीरामकृष्णप्पनास्रा प्रतिष्ठापितायां द्वैतसिद्धान्तपाठशालायां निरन्तरं श्रीमन्मध्वसिद्धान्तग्रन्थानां प्रवचनं सिद्धान्ताभ्यसनशालिनां विद्यार्थिनां वेतनादिना प्रोत्साहनं, प्रतिवर्ष पदवाक्यप्रमाणपारावारपारीणानां सुप्रसिद्धपीठाधिपतीनां पण्डित प्रकाण्डानाञ्चोपन्यासादिद्वारा द्वैतसिद्धान्तग्रन्थतत्त्वानां प्रसारणं, तथा प्राक्तनानां तत्त्वग्रन्थानां मुद्रणपुरस्सरं प्रकाशनं, इत्यादीनि तत्त्वज्ञान कार्याणि अविकलं निर्वाह्यन्ते । विपुलद्रव्यदानेन धनिनामन्येषामपि मार्गदशीं कीर्तिकायः स पुण्यात्मा नियतं सद्वत्यादिश्रेयोभागित्यत्र नात्स्येव विशयलेशोऽपि । भो सहृदयवरेण्या , श्रीरामकृष्णप्पद्वैतवेदान्तपाठशालाद्वारा प्रकाशितमिमं तत्त्वसङ्खयानटीकाग्रन्थमधिकृत्य यद्यपि नास्ति बहु वक्तव्यं, तथापि किञ्चिद्विवक्षुरस्मि । अस्याश्च तत्त्वसङ्कयानटीकायाः व्याख्यानानि अनेकानि सन्तीति श्रूयते । तेषु (१) श्रीमद्विजयीन्द्रतीर्थविरचितं भाववर्णनाख्यं व्याख्यानं, (२) श्रीमद्राघवेन्द्रतीर्थविरचितः भावदीपः, (३) श्रीसत्यवरचरणौपसद्सत्यधर्मयतिकृतै टिप्पणं,