पृष्ठम्:तत्त्वसङ्ख्यानम्.djvu/१४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तत्त्वस्लङ्कयानम् श्री—अनन्तः शेषः । एतदाद्यमिदं विश्वं यदिच्छया सत्तादिकं लभते । सत्तादीत्यादिपदेन प्रमितिप्रवृत्योग्रहणम् । यादृशस्य भगवतः प्रतिपादनमस्मिन् प्रकरणे कृतं तादृशस्यैव प्रीतिराशासनीयेत्याशये नैवमुक्तम् । सदेवः श्रीपतिः श्रीहरिः । कंमला श्रीहरिप्रियेत्यभिधानात्। श्रीर्महालक्ष्मीस्तत्पतिर्भगवान् विष्णुः मे प्रीयतामित्यर्थ इत्यशेषमति मङ्गलम्॥ याद्वाचार्यहृत्पद्मगतश्रीमध्वहृद्रतः । प्रीयतामनया ग्रन्थकृत्या श्रीबादरायणः ॥ लौकिकालौकिकफलं दातारं भजतां सदा । गुर्वनुग्रहरूपं तं मन्दारमहमाश्रये ॥ इति श्रीमद्यदुपत्याचार्यपूज्यपादाराधकेन श्रीनिवासेन विरचितं तत्त्वसङ्खयानविवरणं सम्पूर्णम् । तत्तव्द्यक्तिग्रहोऽपेक्षित इत्युपादानं । हन्तर्हि पुरुषायुषादपर्यवसानं स्यात् । तस्मात्कथमेतदितिचेन्न। केचिदनन्तविष्वक्सेनादीन्नित्यादुःस्वा नाचवक्षते । तन्मतमतन्द्रितः पराकर्तुमनन्तेति समाधिसम्भवात् । तर्हिपूर्वानुपूव्यां “गरुडानन्तविष्वक्सेनादीन्” इति गरुडस्यैव प्रथमं ग्रहणाद्त्रयदितन्मततोद आवश्यकस्तर्हि गरुड एवादौ निर्देश्य इति चेन्न । कश्चिदविपश्चिदपश्चिमो बलमलपद्दशावतार्या 'हलंकलयत' इति । तन्निराकर्तुमपारमतिर्जग्राह तदात्मकमनन्तं यतोऽत इति । अथवा पद्मापद्मासनादयो भवन्तु तदधीना अमुक्ताः । मुक्तास्तु “निरञ्जन' इत्यादिश्रुतेः नतदधीना इत्यतः प्रायोजि “ अनन्ते'ति । ततश्च पद्मा पद्मासनौ अनन्तौ अबद्धौ-मुक्तावितियावत् । अनन्तौ पद्मापद्मासनौ । कडाराः कर्मधारय इति विशेषणस्य परनिपातः । तौ प्रभृती यस्य तत्तथा । रमाया नित्यमुक्ताया ब्रह्मादीनामपि मुक्तानां तदधीनत्वे उतामृतत्वस्येशानः सर्वे तत्प्रज्ञानेत्रं द्वावेतौ नित्यमुक्तौ । अव्यक्तात्पु रुषः परः। श्रीर्यत्ररूपिण्युरुगायपादयोः चरणरजउपास्ते यस्य भूतिर्वयं काः' इत्याद्यांगमा द्रष्टव्याः । अति बन्धन इति धातोरन्तेतिरूपम्। श्रीपतिः । श्रीर्मङ्गलदेवतेत्यशेषमतिमङ्गलम् ।

  • {