पृष्ठम्:तत्त्वसङ्ख्यानम्.djvu/१४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तत्त्वसङ्कयानम् टी-पद्मा पद्मासनानन्तप्रभृतीदं यदिच्छया । सत्तादिलभते देवः प्रीयतां श्रीपतिस्समे ।। इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिततत्त्वसङ्कयानविवरणं श्रीमज्जयतीर्थभिक्षुविरचितं सम्पूर्णम् | श्रीकृष्णार्पणमस्तु ॥ रा-अस्य समस्तस्येति मूलस्थेदंशब्दार्थे विवृण्वन् जगदुपा दानतया सर्वस्य जन्मादिकर्तृत्वभ्रमं वारयंस्तत्प्रीतिं प्रार्थयते । पति । पद्मासनो ब्रह्मा । यदिच्छयेत्यनेनोपादानत्वनिरासः । अनायाससाध्य त्वञ्च सूच्यते । इच्छामात्रं प्रभोः सृष्टिरित्युक्तः । तेन फलाभावेऽपि सृष्टयादिर्युक्तः । आयाससाध्यकर्मण एव फलापेक्षणादित्युक्तं भवति । मूलोक्तसृष्टिशब्दार्थः सत्तेति । तेन सापि सर्वविषयेति सूचितम् । देव्या अपि प्रीतिप्रार्थनालाभायोक्तम् । श्रीपतिरिति ॥ तत्त्वाभिमानिनो देवाः ब्रह्मरुद्रपुरस्सराः । यत्परीवारतामाप्तास्तं वन्दे कमलापतिम् ॥ इति श्रीमत्तत्वसंख्यानटीकाभावदीपः श्रीसुधीन्द्रश्रीपादशिष्य श्रीराघवेन्द्रयतिविरचितः सम्पूर्णः ॥ श्री-समापितग्रन्थो भगवान् टीकाकारोऽन्तेऽपि मङ्गल माचरति । पद्येति । लक्ष्मीःपद्मालयापशेत्यभिधानात् । पद्मा महा लक्ष्मीः । पद्मासनो ब्रह्मा । स– एवं समापितग्रन्थो भगवांष्टीकाकार एतत्प्रकरणप्रति पादितगुणवत्वेन भगवन्तं स्तुवन् एतत्प्रकरणविवरणफलत्वेन स्वस्यै कान्तभक्तत्वमविदुषो जनान् जननौ तनयमिव बोधयन्स्तत्प्रीतिमाशास्ते ॥ पद्वेति । इदं=विश्वं । सत्ता असतः कार्यरूपेण भवनस्यैव जनित्वात् जनिः सत्ताशब्देन गृह्यते । तथा च सा आदिः यस्य सृष्टयाद्यष्टकस्य तत्तथा। ननु पद्माप्रभृतीत्येवोक्तौ सर्वलामे किमर्थपञ्चासनानन्तग्रहणम् । यदि दुःखस्पृष्टतदस्पृष्टभेदाख्यावान्तरविशेषसूचनाय तद्ग्रहस्तर्हि पद्मापद्मासनप्रभृतीत्येव मुखतो वाच्यं स्यात् । न वाच्यं चानन्तेति । अथ