पृष्ठम्:तत्त्वसङ्ख्यानम्.djvu/१४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७८ उच्यते । 'अनादिमायया सुप्तः' इत्यादिश्रुत्या “अनाद्यविद्याबद्धत्वाज्जीवा जानन्ति नो हरिम्' इत्यादि स्टत्याचवावद्यायाः ज्ञानावरकत्वमुच्यते । अावरकत्ववाभावस्य न युक्तमित्यावरकत्वान्यथानुपपत्त्या तस्य भाव रूपत्वसिद्धिरिति ज्ञातव्यम् । अत्र प्रसङ्गात्किञ्चित्तत्त्वरहस्यमुच्यते । इयञ्च भावरूपाविद्या सत्वादिगुणात्मिका प्रकृतिरेव । तस्याश्चाविद्या त्वं स्वरूपज्ञानावरकत्वेन विद्याविरोधित्वात् । यथोक्तं सुधायाम् । ‘अतः कामकर्मातिरिक्तं मायाविद्याप्रकृतिरित्यादिशब्दभिधेयमनाद्येव किमपि द्रव्यं स्वरूपचैतन्यावरकमङ्गीकार्य' इत्युक्त्वा ‘अतः परमेश्वर एव सत्वा दिगुणमय्या विद्याविरोधित्वेनाविद्यया स्वाधीनया प्रकृत्या अचिन्त्याद्भ तया स्वशक्त्याच स्वप्रकाशमपि जीवस्वरूपचैतन्यमाच्छादयतीति युक्तम्’ इति । इयं चव भावरूपाविद्या लिङ्गशरीरमेवेति बहवस्तात्विकाः । तेषां स्पष्टः सुधाविरोधः । यथोक्तं सुधायां फलाध्याये कर्मक्षयपादे ‘भगवद परोक्षज्ञानभोगाभ्यां निवृत्तसमस्तकर्माणो भिन्नलिङ्गशरीराः विध्वस्त प्रकृतयः’ इति । अत्र सत्वादिगुणात्मकप्रकृतिबन्धध्वंसात्पार्थक्येन लिङ्ग शरीरभङ्गस्योक्तत्वात् । एवञ्च जीवस्वरूपस्य षडावरणानि । तथाहि । सत्वादिगुणात्मिका भावरूपाविद्या । “बद्भवन्ति नित्यदा मुक्त मायिनं प्रकृतिं गुणाः' इति भागवतोत्क्तः । तथा कामः । आवृतं ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा । कामरूपेण कौन्तेय’ इति गीतावचनात् ॥

  • तथा काम निरुद्धोऽयं उच्चावचतया भ्रमन् ।

इति भागवतोक्तश्च । । अनादिकर्मणा बद्धो जीवः संसारमण्डले । वासुदेवेच्छया नित्यं भ्रमतीतिहि तद्वचः' ॥ सदा बद्धाः इमे जीवाः अविद्याकामकर्मभिः ? ॥ इति वचनाञ्च ।