पृष्ठम्:तत्त्वसङ्ख्यानम्.djvu/१४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्वगुणाच्छादिकपरमाच्छादिकरूपे द्वे दुष्ट प्रकृती । अथान्ये प्रकृती दुष्ट नृषु प्रातिस्विकं स्थिते । स्वगुणाच्छादिकात्वेका परमाच्छादिका परा ' ॥ इति प्रमाणोत्क्तः । तथा लिङ्गशरीरम् ।

  • एवं पञ्चविधं लिङ्गं त्रिवृत्षोडशविस्तरम् ।

एषचेतनया युक्तो जीव इत्यभिधीयते। अनेन पुरुषो देहान् उपादत्ते विमुञ्चति’ इत्यादि भागवतोक्तः ॥ स्पष्टचैतत्सर्वमुक्तं प्रथमस्कन्घतात्पर्ये पञ्चदशाध्याये

  • प्रकृतिं स्वात्मसंश्लिष्टां गुणान् सत्वादिकानपि ।

कर्माणि सूक्ष्मदेहश्च जायमाना हरेडैशिः । दहेत्तथापि संदग्धेन्धनवत्तत्पुनःपुनः । यावदारब्धकर्मस्यादाविर्वापि तिरोवजेत्' इति ॥ व्याख्यातमेतदस्मदाचवायैः । अत्र प्रकृतिशब्देन स्वगुणाच्छादिकादिरूपा दुष्टजडप्रकृतिरेव विव क्षिता । सत्वादिकान् गुणानपीत्युक्त्या सत्वादिगुणरूपा जडप्रकृतिरपि भावरूपा अविद्याख्या जीवस्वरूपाच्छादिकास्तीति सूचयति । कर्माणि प्रारब्धानि । सूक्ष्मदेहं लिङ्गशरीरमिति । अत्र अपिशब्देन वा चवशब्देन वा कामोऽपि ग्राह्यः । इदमावरणषट्टमपरोक्षज्ञानभोगाभ्यांविनाश्यम् । कर्मातिरिक्तमावरणपञ्चकमपरोक्षज्ञानविनाश्यम् । प्रारब्धं कर्मच भोगविनाश्यम् । ज्ञानेनतूपमर्द इति ज्ञातव्यम् । ईश्वरेच्छापि पूर्वोक्त षटातिरिक्त सप्तममावरणम् । * परमेश्वरो अचिन्त्याद्रतया स्वशक्त्या जीवस्वरूपचैतन्यमाच्छादयति’ इति । तथा चापरोक्षज्ञाना सुधावन्तः नन्तरमावरणषट्टानां दाहेऽपि दग्धपटायमानतया आविर्भावतिरोभावा भ्यामनुवृत्तानामेषां विरजास्नानेन निश्शेषनाशः । अनन्तरं प्रलये भगव दुदरे स्थित्वा बहुतरानन्दभोक्तृणामेषां सृष्टयनन्तरं श्वेतद्वीपाविर्भावे सति तत्रत्यश्रीनारायणसन्दर्शनानन्तरमपरोक्षज्ञानोत्तरानुष्ठितं निवृत्तं