पृष्ठम्:तत्त्वसङ्ख्यानम्.djvu/११५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

टी-सर्वमचेतनं चेतनार्थमिति चेतनस्य प्राधान्यात्पूर्वमुद्देशः । मृद्ब्रवीदित्यादिवचनात्सर्वं चेतनमेवेति मतनिरासाय मत इत्युक्तम् । तचाभिमान्यधिकरणे निरस्तम् । चेतनादिविभागस्य नित्यादि विभागादभ्यर्हितत्वात्स एवादावुदाहृतः । नान्न्यूनतेत्याशङ्कां परिहरन् संज्ञानिरुक्तयैव लक्षणे लब्धे इत्याह । चेतयतीत्यादिना । जानातीत्यर्थः । झालाधिकरणत्वमितियावत् । अनेवंविध इति । नजानातीत्यचेतन । ज्ञानानधिकरणमिति यावत् । ननु चेतनशब्दः प्राणीतुचेतनो जीवो जन्तुजन्यशारीरिण इत्यभिधानबलात् जीवएव प्रसिद्धः । तथाच विष्णोश्चेतनत्वं न स्यात् । तथा अचेतनशब्दो घटादिभावपदार्थ एव प्रसिद्धः । तथा चाभावस्याचेतनत्वं न स्यादित्याशङ्कां परिहरन्नाह । तेनेति । चेतन लक्षणाक्रान्तत्वेनेत्यर्थः । तथा चेतनाचेतनशब्दयोः यौगिकत्वेन विष्ण्व भावयोः चेतनाचेतनत्वे नानुपपन्ने इति भावः । रा—चेतनार्थमिति । तद्दृष्टजत्वादितिभावः । अथातो विभूतयोऽस्य पुरुषस्येत्युक्तदिशा भगवद्भोगार्थत्वाद्वेतिभाव: । अभि मान्यधिकरण इति । 'अभिमानिव्यपदेशस्तु विशेषानुगतिभ्याम् इति युक्तिपादीयतृतीयाधिकरणे 'मृदब्रवीत् आपोऽत्रुवन् तत्तेज ऐक्षत ओषधयः संवदंत' इत्यादिवाक्यमप्रमाणम् । मृदादिकै-नव क्तृत्वादिमत्-जडत्वात्-मृत्वात्-इति युक्तिविरुद्धत्वात्-इति प्राप्त नि दर्दोषवेदवाक्यस्य निरवकाशयुक्तश्चाप्रामाण्यायोगात्प्रमाणभूतोभयान्य थानुपपत्या मृदादिशब्दानां तदभिमानिचेतनपरत्वस्यावश्यं कल्प्यत्वा का–चेतयतीति । जानातीत्यर्थः । यद्यपि रूढया चेतना चेतनपदाभ्यां वित्वजडत्वरूपजातिविवक्षापि संभवति । तथापि ज्ञातृत्वाज्ञातृत्वरूपव्यावर्तकलक्षणलाभाय योगाश्रयणम् । झात्त्व ज्ञानस्वामित्वं ज्ञानाश्रयत्वस्यान्तःकरणसाधारणत्वादित्यवधेयम् ।