पृष्ठम्:तत्त्वसङ्ख्यानम्.djvu/११४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

टी-भावं विभज्य दर्शयति । चैतनाचेतनत्वेन भावोपि द्विविधो मतः ॥ २ ॥ नकेवलमभावो भेदवान् किन्तु भावोऽपीत्यपिशब्दः । चेतयतीति चेतनः । अनेवंविधोऽचेतनः । तेन विष्णोश्चेतनत्वमभावस्याचेतनत्वञ्च ज्ञातव्यम् । रिति । उपादानोपादेययोरित्यर्थः । संम्मर्गस्येति । संबन्ध्यति रिक्तस्य समवायरूपस्य संसर्गस्येत्यर्थः । इदमुक्तं भवति । संसर्गाभावत्वं नाम संसर्गप्रतियोगिकाभावत्वं वा । संसर्गारोपपूर्वकप्रमितिविषया भावत्वं वा । नाद्यः । सतिहि उपादानोपादेययोः संसर्गे उपादाने पूर्वकालसंबन्धः । उपादेयसंसर्गप्रतियोगिकोऽभावः प्रागभावः । तथो तरकालसंबद्ध उपादेयसंसर्गप्रतियोगिकोऽभावः प्रध्वंस इतिस्यात् । नचैवं । उपादानोपादेययोरभेदाङ्गीकारेण संसर्गस्यैवाभावात् । प्रागभा वादीनां घटप्रतियोगिकत्वोपलंभेन संसर्गप्रतियोगिकत्वस्य त्वयानङ्गी काराच्च । नद्वितीयः । मृत्पिण्डे घटसंसगों यः कश्चिदारोप्यते उत समवायः । नाद्यः । संसर्गसामान्यस्य सत्वेन आरोपासंभवात् । न द्वितीयः । समवायस्याप्यन्यत्र निराकृतत्वादिति । रा–चेतयतीति । स्वार्थेणिच् । चिती संज्ञाने । चेतते सम्यक् जानातीति बहुलग्रहणात् कर्तरि ल्युट् । यद्धा हेतुमत्येव णिच् । परान् बोधयतीत्यर्थ । चिती संज्ञान इत्यतो ण्यन्तात् ण्यास श्रथो युजिति ण्यन्तात् स्त्रियां युच्प्रत्यये अनादेशे णेरनिटीति णिलोपे चेतनेति रूपम् । अर्श आद्यच् प्रत्यये चेतनासंज्ञा तद्धांश्चेतन इति रूपमिति भावः । अनेवंविधो ज्ञानहीन इत्यर्थः । तेनेति । एवं निर्वचनेनेत्यर्थः । श्री– ननु भावोऽपीत्यपिशब्दो नाभावद्वित्वसमुच्चयार्थः । अभावे त्रित्वस्योक्तत्वादित्यतोऽवान्तरमेदवत्तामात्रसमुञ्चायकोऽयमपि शब्दइत्याशयेनाह । नकेवलमिति । ननु चेतनाचेतनयोर्लक्षणाकथ