पृष्ठम्:तत्त्वसङ्ख्यानम्.djvu/११०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

टी-अथात्यन्ताभाव इति प्रसिद्धसंज्ञातिक्रमेण सदाभाव इति सज्ञान्तरकरण किमर्थम् । लक्षणस्याप्युद्देशेनैव सूचनाथम् । यचा न्यैरत्यन्ताभावस्वरूपमुक्त संसर्गप्रतियोगिकाभावोऽत्यन्ताभाव इति यथैतद्धटैतद्भतलसंसर्गाभाव इति तदपि निराकर्तुमेतत् । तस्य निरवधिकत्वाभावात् । तर्हि उदाहृतश्चतुर्थ:स्यादिति चेन्न । तस्यापि यथासंभवं प्रागभावादिष्वन्तर्भावात् । यदि भूतः तदा ध्वंसः । न कदापिचेत् तदा अत्यन्ताभाव इत्येवं यथा श्री-निरवधिक इति । प्रतियोगिकालावधिकपूर्वत्वापरत्व रहिताभावः । तथा च यो अभावः कालत्रये अस्ति सः अत्यन्ताभाव इति निर्गलितोऽर्थः । इममेवार्थमभिप्रेत्य लक्ष्ये उपपादयति । सदेति । नित्ये गगनादावतिव्याप्तिपरिहाररायाभावपदम् । प्रागभावध्वंसयो रतिव्याप्तिपरिहाराय कालत्रयेऽस्तीत्युक्तमित्यवगन्तव्यम् । शङ्कते ॥ ॥ अथेति । उत्तरमाह ॥ लक्षणस्यापीति । यद्यपि अत्यन्ताभाव इति का–तहति...। स्यादेतत् । कदापि घटसंसर्गशशून्ये घटो नास्तीति प्रतीयमानस्तावन्नप्रागभावादिः ध्वंसप्रागभावयोः प्रतियोगिसमानदे शत्वनियमात्। नाप्यत्यन्ताभावः । तस्यासन्मात्रप्रतियोगिकत्वात् । घटा देश्ध सत्वादिति चेदत्राहुः । तत्र घटोनास्तीत्यादौ तद्देशघटसंसर्ग एव प्रतियोगितया भासते । तस्य चासत्वात् तत्प्रतियोगिकात्यन्ताभाव एव तत्र विषय इति। यदितु घट एव तद्देशनिष्ठात्यन्ताभावप्रतियोगितया भासते तदापि तद्देशारोपित एव तथा । न चैवं घटवत्यपि घटो नास्तीति प्रतीत्यापत्तिः। प्रतियोगिनोऽसत्वादिति वाच्यम् । प्रतियोगिनेव प्रति योग्यारोपप्रधानेनापि अभावस्य विरोधात घटवति च प्रतियोग्य सत्वेऽपि प्रधानभूतधटस्यैवसत्वात् । प्रधानत्वादेव च तस्यापि प्रति योगित्वव्यवहार इतिदिक् ।