पृष्ठम्:तत्त्वसङ्ख्यानम्.djvu/१११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उद्देशेऽपि अत्यन्तपदार्थविचारे सति अयमेवाथों लभ्यते । कालत्रयार्थ कसदाशब्दार्थतात्पर्यकत्वात्तस्यापीत्यविशेष एव । तथाप्यविलम्बेन लक्षणोपस्थित्यर्थे तथोक्तमिति ध्येयम् । प्रसिद्धसंज्ञातिक्रमे निमित्तान्तरं वक्तुमाह । यच्चान्यैरित्यादिना । संसर्गप्रतियोगिकेति । अन्योन्या भावस्य तादात्म्यप्रतियोगिकत्वेन संसर्गप्रतियोगिकत्वाभावात्प्रागभाव प्रध्वंसयोश्च एतन्मते संसगभावत्वाभावेन न कुत्राप्यतिव्याप्तिरिति भावः । तदुदाहरति । यथैतद्धटेति ॥ इह भूतले घटो नास्तीत्येवं रूप इत्यर्थः । एतदिति । सदाभावपदमित्यर्थः । अत्रापि यद्यप्यत्यन्ताभाव इत्युद्देशेपि परमतनिराकरणं लभ्यत एव । अत्यन्तसद्भाशब्दयोर्विचार्य माणे एकार्थत्वात् । तथापि स्फुटतया तलुाभार्थमेतदुक्तमित्यव गन्तव्यम् । कथमनेन तन्निराकरणमित्यत आह । तस्येति । सदा भावशब्दस्य निरवधिकाभावार्थकत्वेन एतद्धटैतद्भदूतलसंसर्गप्रतियोगि काभावस्योत्पत्तिविनाशप्रतीतिबलेन प्रतियोगिकालावधिकपूर्वत्वापरत्व राहित्यरूपनिरवधिकत्वाभावेन त्रैकालिकनिषेधरूपसदाभावत्वाभावा दित्यर्थः । तर्हति ॥ इह भूतले घटो नास्तीति प्रतीतिसिद्धस्यैतद्धटै तद्भदतलसंसर्गाभावस्योत्पत्तिविनाशशीलत्वेन प्रागभावादित्रितयभिन्न तया तुरीयाभावो भवद्भिरङ्गीकार्यःस्यादित्यर्थ । । तस्यापीति । एत द्धटैतद्भतलसंसर्गाभावस्यापीत्यर्थः । यथासंभवमिति। एतद्धटैतद्भतल संसर्गस्य भावित्वे प्राक् तदभावःप्रागभावे, तस्यातीतत्वे पश्चात्तदभावो ध्वंसे, कदाप्यसत्वनिश्चये तदभावः अत्यन्ताभावे, अन्तर्भवतीत्यर्थः । ननु घटप्रतियोगिक एवायमभावो न संसर्गप्रतियोगिकः । घटस्यैव प्रतियोगित्वेन व्यवहारादितिचेन्न । संसर्गवत् घटस्यापि संसर्गाभाव विरोधितया भूतले घटाभाव इति व्यवहारे घटपदे उपचारेण संसर्ग स्यैव विवक्षितत्वादिति । नहि घटस्य प्रतिषेध्यस्वरूपत्वरूपं प्रतियोगि त्वं संभवति । तथाहि भूतले घटोऽस्तीति प्रतीतौ धटसंबन्धवत् भूतले घटो नास्तीत्यत्रापि घटसंबन्धाभावस्य प्रतीतेः । किञ्च इह भूतले घटो