पृष्ठम्:तत्त्वसङ्ख्यानम्.djvu/१०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तत्त्वसङ्खयानम् श्री–उत्तरैकावधिरिति । यस्याभावस्य स्वापेक्षया उत्तरकाल एव प्रतियोग्यधिकरणकाल एवेति यावत् । अवधिः अनधिकरणो न पूर्वकाल इत्यर्थः । तथा च यः अभावः प्रतियोग्युत्पत्तिकालापेक्षया प्रागेवास्ति सः प्रागभाव इति फलितोऽर्थ । अत इत्थं लक्षणवाक्यार्थ मभिप्रेत्य लक्ष्ये उपपादयति । प्रतियोग्युत्पत्तेरिति । अत्राभाव इत्यनुक्तौ प्रतियोगिभूतघटोत्पत्तिकालापेक्षया प्रागेव विद्यमाने घट सामञ्यादौ अतिव्याप्तिःस्यात् । तदर्थ अभावपदम् । प्रतियोगिकाला पेक्षया इत्यनुक्त्वा यः अभावः प्रागेवास्तीत्येवोक्तौ असंभवस्यात् । घटप्रागभावस्य तन्त्वाद्युत्पत्यनन्तरमपि सत्वात् । अतः प्रतियोगिकाला पेक्षयेत्युक्तम् । तथाच नासंभव । प्राक्पदानुपादाने प्रतियोगिभूत घटकालापेक्षया पश्चात् विद्यमाने घटध्वंसे अतिव्याप्तिःस्यात् । तदर्थे प्रागित्युक्तम् । अवधारणाभावे घटप्रतियोगिकान्योन्याभावरूपे घटध्वंसे प्रतियोगिभूतघटकालापेक्षया पूर्व (मपि विद्यमानेति) भावे अतिव्याप्तिः स्यात् तदर्थं प्रागेवेत्यवधारणम् । तस्य पश्चादपि विद्यमानत्वान्नाति व्याप्तिरिति सर्व सार्थकम् । ननु प्राक्त्वं नाम प्रागभावावच्छिन्नसमय उत्पत्तिशब्दश्च सकलकारणसमवधानार्थ एव विवक्षितो नत्वसत सत्तासंबंधार्थः । अतो न सत्तासंबन्धदशायां प्रागभावासंभवादसैभवः । ततश्च प्रतियोग्युत्पाद्कसकलकारणसमवधानानन्तरमेवासन्नभाव प्राग भाव इति फलितोऽर्थ । अत्र चव घटसामन्यामतिव्याप्तिवारणायाभाव पदम् । अत्यन्ताभावनिवृत्यै असन्निति । तस्य च सदातनत्वेनासत्वा भावान्नतत्रातिव्याप्तिः । असन्नभावो ध्वंसोऽपीति अतिव्याप्तिनिवृत्यै प्रतियोग्युत्पादकसकलकारणसमवधानानन्तरमित्युक्तम्। मृदाद्युत्पादक सकलकारणसमवधानानन्तरमपि वर्तमानत्वात् घटप्रागभावस्यासंभवो माभूदिति प्रतियोगिपदम् । उत्पत्तिपदन्तु प्रागभावस्योत्पत्तिपर्यन्तमनु वृत्तिः नतु ततः प्राक्निवृत्तिरिति दर्शयितुं नतु लक्षणान्तर्गतम् । अनन्तरपदाभावेतु प्रतियोग्युत्पादकसकलकारणसमवधानात् पूर्वमप्या पद्येत । ततश्च ध्वंसेऽतिव्याप्तिस्तन्निर्वेत्यर्थमनन्तरमित्युक्तमिति सर्वे