पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

८ सविस्तरायां जैमिनीयन्यायमालायां - बलञ्च द्विदैवत्यत्वम् । शब्दोच्चारणमात्रेण सहसा प्रतिभासात् । क्रमस्तु विलम्बितप्र- तीत्या दुर्बलः । चतुर्थे--(१)दर्विहोमेष्वतिदेशोऽपोद्यते ॥ ऊहारम्भोऽथ सामोहा मन्त्रोहस्तत्प्रसङ्गतः। नवमाध्यायपादेषु चतुष्र्वेते प्रकीर्तिताः ॥ २१ ॥ नवमाध्यायस्य प्रथमे पादे--उपोद्धातपूर्वकमूहविचारप्रारम्भः । तत्र प्रयाज दयो(२) धर्मा अपूर्वप्रयुक्ताः । अवघातमन्त्रादिष्वविवक्षितं व्रीह्यग्न्यादिस्वरूपं, साधन- विशेषत्वमानं विवक्षितमित्यादिरुपोद्धातः । सवित्रश्विपूषशब्दानां विकृतिषु नाऽस्त्यूहः । अग्निशब्दस्याऽस्त्यूह इत्यादिक ऊहविचारारम्भः । द्वितीये--सपरिकरस्सामोहः । तृतीये--मन्त्रोहः । चतुर्थे--मन्त्रोहप्रसङ्गापतितो विचारः ॥ द्वारलोपोऽस्य विस्तारः कार्यैकत्वं समुच्चयः। ग्रहसामप्रकीर्णानि नञर्थश्चाऽष्टपादगाः ।। २२ ॥ दशमाध्यायस्य प्रथमे पादे--बाधहेतुर्द्वारलोपो निरूपितः । तद्यथा--'स्वयं कृता वेदिर्भवती'त्यत्र वेदिनिष्पादनरूपस्य द्वारस्य लोपेन निष्पादकानामुद्धननादीनां बाधः । कृष्णलेषु वितुषीकरणरूपस्य द्वारस्य लोपेनाऽवघातस्य बाधः । द्वितीये--संक्षे- पेणोक्तस्य द्वारलोपस्य बहुभिरुदाहरणैर्विस्तारः। तृतीये--बाधकारणं कार्यैकत्वम् । तद्यथा--प्रकृतौ गवाश्वादिदक्षिणाया ऋत्विक्परिक्रयः कार्यम् । तथा विकृतिरूपे भूना- म्न्येकाहे धेनुरूपाया दक्षिणायास्तदेव कार्यम् । ततो धेन्वा गवाश्वादिदक्षिणा विकृतौ चोदकप्राप्ता बाध्यते । चतुर्थे–नक्षत्रेष्टिविहिता उपहोमाश्चोदकप्राप्तैर्रिष्टहोमस्सह समुच्चीयन्त इत्यादिस्समुच्चयः । पञ्चमे--षोडशिग्रहः प्रकृतिगामी । स चाऽऽग्रय- णपात्रादेव ग्रहीतव्य इत्यादिर्बाधप्रसङ्गागतो ग्रहादिविचारः । षष्ठे--‘एकं साम तृचे गेयम्' इत्यादिर्बाधप्रसङ्गागतस्सामविचारः। सप्तमे--पश्वङ्गे प्रत्यङ्गं हविर्भेदः, न कृत्स्नः पशुहविर्भेदः । गृहमेधीयमपूर्व कर्मेत्यादिर्वाधप्रसङ्गागतः प्रकीर्णविचारः । अष्टमे- 'नानुयाजेष्विति पर्युदासः, 'न सोम' इत्यर्थवादः, 'नातिरात्र' इति प्रतिषेध इत्या- दिर्वाधोपयुक्तो नअर्थविचारः ॥ उपोद्घातस्तथा तन्त्रावापौ तन्त्रस्य विस्तृतिः । आवापविस्तृतिश्चकादशाध्यायस्य पादगाः ॥ २३ ॥ एकादशाध्यायस्य प्रथमे पादे--तन्त्रस्योपोद्धातो वर्णितः । द्वितीये--त- १. याज्यापुरोनुवाक्याभ्यां विना केवलस्वाहाकारान्तमन्त्रप्रदेयतया विहिता होमा दर्विहोमाः कथ्यन्ते । २. अङ्गानीत्यर्थः ।