पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/८६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

वाक्यभेदाधिकरणम् ] द्वितीयोऽध्यायः । - । तच्छब्दार्थनिर्णयाय पूर्वपदसमूहसाकाङ्क्षत्वमस्ति । अतस्तद्व्यवच्छेत्तुम् –'एकार्थम्' इत्युच्यते । न हि तत्रैकार्थत्वमस्ति । पूर्वसमूहस्य सदनकरणमर्थः, उत्तरसमूहस्य पुरोडाशप्रतिष्ठापनम् । स्योनं समीचीनम् । सुशेवं सुष्टु सेवितुं योग्यम् । मेध सारभूत पुरोडाशेत्यर्थः । अत्र द्वयोः पदसमूहयोर्वाक्यद्वयत्वमुभयवादिसिद्धम् । (१)तदेतत् 'एकार्थम्' इत्यनेन व्यावर्त्यते । 'एकार्थम्' इत्युक्तेऽतिव्याप्तिः स्यात् । “भगो वां विभ. जतु, पूषा वां विभजतु" इत्यनयोः (२)विभन्नमन्त्रत्वेन सम्मतयोः पदसमूहयो- स्तात्पर्यविषयस्य द्रव्यविभागरूपस्याऽर्थस्यैकत्वात् , तद्व्यवच्छेत्तुं 'विभागे साका- ङ्क्षम्' इत्युक्तम् । प्रकृते तु “अग्नये जुष्टम्" इत्यादिसमूहे पृथक्कृते पूर्वो 'देवस्य त्वा' इति समूहः साकांक्षो भवति । एकीकृते तु कृत्स्नस्यैक एव निर्वापोऽर्थः । एतेनै- कवाक्यत्वनिर्णयेनाऽनियतपरिमाणस्य यजुषोऽवसानं निश्चेतुं शक्यम् ॥ इति चतुर्दशमेकवाक्याधिकरणम् ॥ १४ ॥ अथ पञ्चदशं वाक्यभेदाधिकरणम् ॥ १५ ॥ पञ्चदशाधिकरणमारचयति- इषे त्वादिर्मन्त्र एको भिन्नो वैकः क्रियापदे । असत्यर्थास्मारकत्वादेकादृष्टस्य कल्पनात् ॥ ३२ ॥ छेदने मार्जने चैतौ विनियुक्तौ क्रियापदे । आध्याहृतेस्मारकत्वान्मन्त्रभेदोऽर्थभेदतः॥ ३३ ॥ (३) “इषे त्वा ऊर्जे त्वा” इति श्रूयते । सोऽयं पदसमुदाय एको मन्त्रः । कुतः ? अस्य मन्त्रस्याऽदृष्टार्थत्वेनैकस्यैवाऽदृष्टस्य कल्पने लाघवात् । न च (४)"उरु प्रथस्वेत्यादिमन्त्रवदनुष्टेयार्थस्मारकत्वं सम्भवति, क्रियापदाभावेन तदर्थप्रतीत्य- भावादिति प्राप्ते- ब्रूमः-(५) इषे त्वेत्याच्छिनत्ति, ऊर्जे त्वेत्यनुमाष्र्टि' इति पलाशशाखायाश्छेदन- मार्जनयोरेतौ विनियुक्तौ । ततस्तदनुसारेण 'छिनद्मि’ ‘अनुमाज्मीत्येवं क्रियापदेऽध्याहृते सत्यनुष्ठेयार्थस्मारकत्वादर्थभेदेन वाक्यभेदाद्यजुर्मन्त्रभेदः । 'इष्यमाणायाऽन्नाय भोः प- लाशशाखे त्वा छिनद्मि' 'ऊर्जे रसाय बलाय वा त्वामनुमाज्मी'त्यर्थभेदः । एवं (६) आ. १. तदेकार्थमिति. ख. पु. २. विभजनमन्त्रत्वेनेति. क. पु. ३. तै. सं. १. १. १. ४. तै. सं. १. १. ८. ५. आप. श्री. १. १. ११. ते. सं. १. ७.९. ८ जे० न्या - -