पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/८५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

८४ सविस्तरायां जैमिनीयन्यायमालायां [अ. २. पा.१.अधि.१४. (१)“बर्हिः स्तृणीहिः' (२)"इन्द्र आगच्छ, हरिव आगच्छे” त्यादयो निगदा आ- म्नाताः । (३)परप्रत्यायनार्था मन्त्रा निगदाः । एते च पूर्वोक्तेम्य ऋग्यजुसामभ्यो बहि- र्भूताश्चतुर्थप्रकाराः । कुतः ? पादगीत्योः ऋक्सामलक्षणयोरभावात् । प्रश्लिष्टपाठस्य यजुर्लक्षणस्य सत्त्वेऽपि धर्मभेदेन यजुष्यन्तर्भावानुपपत्तेः । 'उपांशु यजुषा उच्चै- निंगदेन' इति हि धर्मभेद इति प्राप्ते- ब्रूमः—'बहिर्ब्राह्मणा भोज्यन्ताम्, परिव्राजकास्त्वन्तः' इत्यत्र सत्येव परिव्राज- कानां ब्राह्मण्ये पूजानिमित्तो विशेषो यथा, तथा निगदानां यजुर्लक्षणोपेतत्वेन यजुषामेव सतां परप्रत्यायननिमित्तमुच्चस्त्वधर्मः । ततो मन्त्राणां त्रैविध्यं सुस्थितम् ॥ इति त्रयोदशं निगदाधिकरणम् ॥ १३ ॥ । - अथ चतुर्दशमेकवाक्यताधिकरणम् ॥ १४ ॥ चतुर्दशाधिकरणमारचयति- देवस्य त्वेति वाक्यस्य भिन्नत्वमथवैकता । ऐक्यप्रयोजकस्याऽत्र दुर्बोधत्वेन भिन्नता ॥ ३० ॥ विभागे सति साकाङ्क्षस्यैकार्थत्वं प्रयोजकम् । तस्माद्वाक्यैक्यमेतेन यजुरन्तोऽवधार्यते ॥ ३१ ॥ दर्शपूर्णमासयोराम्नायते-(४)"देवस्य त्वा सवितुः प्रसवे, अश्विनोर्बाहुभ्याम् , पूष्णो हस्ताभ्याम् , अग्नये जुष्टं निर्वपामि” इति । तत्र वाक्यानि भिन्नानि भवितुम- र्हन्ति । कुतः ? एकत्वनियामकस्य दुर्योधत्वात् । अथैक्यं वाक्यैक्ये प्रयोजकमिति चेत्-न ; एकस्मिन् पदेऽतिव्याप्तेः। पदसमूहस्य वाक्यत्वे, समूहानामत्र बहूनां सम्भवाद्वाक्यभेदः स्यादिति चेत्- मैवम् ; 'यद्विभागे साकाङ्क्षमविभागे चैकार्थम् , तदेकं वाक्यम्' इति प्रयोज- कस्य बोद्धुं शक्यत्वात् । 'विभागे साकाङ्क्षम्' इत्युक्तेऽतिव्याप्तिः स्यात् । (५)"स्योनं ते सदनं कृणोमि घृतस्य धारया सुशेवं कल्पयामि, तस्मिन्सीदाऽमृते प्रतितिष्ठ व्रीहीणां मेध सुमनस्यमानः” इत्यत्र 'तस्मिन्' इत्यादिपदसमूहस्य विभागे सति प्रकृतवाचि- 2 १.श.बा.४.२.४.११. ३. परसंवोधनार्था इति. ख. पु. ५. ते. ब्रा. ३. ७. ५. २. ते. आ. १. १२. ३. ४. तै. सं. १. १.४. २.