पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/८३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

८२ सविस्तरायां जैमिनीयन्यायमालायां [ अ.२. पा. १. अधि, १०. - - वादसूक्तादावतिव्याप्तेः । तस्मात् नाऽस्ति ब्राह्मणस्य लक्षणमिति प्राप्ते- ब्रूमः-मन्त्रब्राह्मगरूपौ द्वावेव वेदभागावित्यङ्गीकारान्मन्त्रलक्षणस्य पूर्वमभि- हितत्वात् 'अवशिष्टो वेदभागो ब्राह्मणम्' इत्येतल्लक्षणं भवतीति ॥ इत्यष्टमं ब्राह्मणलक्षणाधिकरणम् ॥ ८ ॥ अथ नवमं ऊहाद्यमन्त्रताधिकरणम् ॥ ६॥ नवमाधिकरणमारचयति- ऊहप्रवरनाम्नां किं मन्त्रताऽस्त्यथवा न हि । मन्त्रास्तदेकवाक्यत्वान्न तल्लक्षणवर्जनात् ॥ २६ ॥ (१) अग्नये जुष्टं निर्वपामि” इत्यस्य सौर्ये चरौ 'सूर्याय जुष्टं निर्वपामि' इत्येवं पदान्तरप्रक्षेप ऊहः । (२) अदीक्षिष्टाऽयं ब्राह्मणः” इत्यस्य मन्त्रस्य शेषत्वेन प्रयोग- काले ब्राह्मणनामधेयविशेषं तदीयप्रवरं चैवं पठन्ति–'असौ देवदत्तोऽमुष्य पुत्रोऽमुष्य पौत्रोऽमुष्य नप्ताऽमुव्याः पुत्रोऽमुष्याः पौत्रोऽमुष्या नप्ता' इति । 'आङ्गिरसवार्हस्पत्य भारद्वाजगोत्रः' इति च । एतेषामूहप्रवरनामधेयानां मन्त्रत्वमस्ति । कुतः ? मन्त्रेण सहैकवाक्यत्वादिति चेत्- मैवम् ; याज्ञिकप्रसिद्धिरूपस्य मन्त्रलक्षणस्यैतेष्वभावात् । न ह्यध्येतार ऊहादी- न्मन्त्रकाण्डेऽधीयते । तस्मात् नाऽस्ति मन्त्रत्वम् ॥ इति नवमं ऊहाद्यमन्त्रताधिकरणम् ॥ ९ ॥ - ऋक्सामयजुर्लक्षणाधिकरणम् ॥ १०-१२ ॥ दशमैकादशद्वादशाधिकरणमारचयति- नर्क्सामयजुषां लक्ष्म सांकर्यादिति शङ्किते । पादश्च गीतिः प्रश्लिष्टपाठ इत्यस्त्वसंकरः ।। २७ ।। 9. तै. सं. १.१.४.२. २. सोमयागे यमनियमपरिग्रहरूपदीक्षा ग्रहणानन्तरं अध्वर्युणा पठनोयोऽयं मंत्रः। अयं ब्राह्मणः दीक्षां गृहीतवान् 'अमुकशर्मा अमुझस्य पुत्रः' इत्यादि ।