पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/८१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सविस्तरायां जैमिनीयन्यायमालायां [अ. २. पा. १. अधि. ८ मन्त्रः 'उत्तमपुरुषान्तो मन्त्रः' इत्यादिलक्षणानां परस्परमव्याप्तिरिति चेत्- मैवम् ; याज्ञिकसमाख्यानस्य निर्दोषलक्षणत्वात् । तच्च समाख्यानमनुष्ठानस्मा- रकादीनां मन्त्रत्वं गमयति । (१)"उरु प्रथस्वे" त्यादयोऽनुष्ठानस्मारकाः । (२)“अग्निमीले पुरोहितम्" इत्यादयः स्तुतिरूपाः । (३) “इषे त्वा” इत्या- दयस्त्वान्ताः । (४)"अग्न आ याहि वीतये" इत्यादय आमन्त्रणोपेताः । (५)"अ- ग्नीदग्नीन्विहर” इत्यादयः प्रैषरूपाः। (६)"अधः स्त्रिदासीदुपरि स्विदासोत्" इत्या- दयो विचाररूपाः । (७)"अम्बे अम्बिके अम्बालिके न मा नयति कश्चन" इत्यादयः परिदेवनरूपाः ।(८) “पृच्छामि त्वा परमन्तं पृथिव्याः” इत्यादयः प्रश्नरूपाः । (९)“वेदिमाहुः परमन्तं पृथिव्याः” इत्यादय उत्तररूपाः । एवमन्यदप्युदाहर्तव्यम् । ईदृशेष्वत्यन्तविजातीयेषु समाख्यानमन्तरेण नाऽन्यः कश्चिदनुगतो धर्मोऽस्ति,यस्य लक्षणत्वमुच्येत । लक्षणस्योपयोगश्च पूर्वाचार्यैर्दर्शितः- (१०)"ऋषयोऽपि पदार्थानां नान्तं यान्ति पृथक्त्वशः । लक्षणेन तु सिद्धानामन्तं यान्ति विपश्चितः। ॥ इति । तस्मात्-अभियुक्तानां “मन्त्रोऽयम्' इति समाख्यानं लक्षणम् ॥ 11 इति सप्तमं मन्त्र लक्षणाधिकरणम् ॥ ७ ॥

- - - अथाऽष्टमं ब्राह्मणलक्षणाधिकरणम् ॥ ८ ॥ अष्टमाधिकरणमारचयति- नाऽस्त्येतद्ब्राह्मणेत्यत्र लक्षणं विद्यतेऽथवा । नाऽस्तीयन्तो वेदभागा इति क्लृप्तेरभावतः ।। २४ ॥ मन्त्रश्च ब्राह्मणं चेति द्वौ भागौ तेन मन्त्रतः । अन्यद्ब्राह्मणमित्येतद्भवेद्ब्राह्मणलक्षणम् ॥ २५ ॥ चातुर्मास्येष्विदमाम्नायते-(११) “एतद्ब्राह्मणान्येव पञ्च हवींषि इति । १.ते. सं. १. १.८. २. ऋ. सं. १. १. १. ३. तै. सं. १. १. १. ४. ऋ. सं. ४. ५. २२, ते. वा. ३, ५. २. १. ६. ते. ब्रा. ०.८. ९.५. ७. ( मा. सं. २३. १८. ) एतानि राजपत्नीविशेषाणां नामानि । ८. तै. सं. ७.४.१८. ९. ते. सं. ७. ४. १८. १०. शा.भा.२.१.७ ११. ( ते. ब्रा. १. ५. १.) वरुणप्रघासपवर्येतच्छ्रुतम् । पञ्च हवींषि वरुण- ५.श. ब्रा. ४. २.४.११.