पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

६ सविस्तरायां जैमिनीयन्यायमालायां उपोद्घातः कर्मभेदमानं तस्याऽपवादगीः । प्रयोगभेद इत्येते द्वितीयाध्यायपादगाः ॥ १४ ॥ द्वितीयाध्यायस्य प्रथमे पादे-आख्यातमेवाऽपूर्वबोधकम् , अपूर्वसदसद्भाव- श्चेत्यादिकः कर्मभेदचिन्तोपयुक्त उपोद्धातो वर्णितः । द्वितीये-(१)धातुभेदपुनरुक्त्या- दिभिः कर्मभेदः । तृतीये-रथन्तरादीनां कर्मभेदप्रामाण्यापवादः । चतुर्थे–नित्य- काम्ययोः प्रयोगयोर्भेदः ॥ श्रुतिर्लिङ्गं च वाक्यादिविरोधप्रतिपत्तयः । अनारभ्योक्तिबह्वर्थस्वाम्यर्था अष्टपादगाः ॥ १५ ॥ तृतीयाध्यायस्य प्रथमे पादे--शेषत्वबोधकानां श्रुतिलिङ्गादीनां मध्ये श्रुतिर्वि- चारिता । द्वितीये-लिङ्गम् । तृतीये-वाक्य(२)प्रकरणादि । चतुर्थे—निवीतोप- वीतादिष्वर्थवादत्वविधित्वादिनिर्णयहेतुः, श्रुत्यादेः परस्परविरोधसदसद्भावश्च । पञ्चमे-- (३)प्रतिपत्तिकर्माणि । षष्ठे–अनारभ्याधीतानि । सप्तमे—बहुप्रधानोपकारकप्रयाजा- दीनि । अष्टमे-याजमानानि ॥ प्रधानस्य प्रयोक्तृत्वमप्रधानप्रयोक्तृता । फलचिन्ता जघन्याङ्गचिन्तेत्येते चतुर्थगाः॥ १६ ॥ चतुर्थाध्यायस्य प्रथमे पादे--प्रधानभूतामिक्षा दध्यानयनस्य प्रयोजिकेत्यादि प्रधानप्रयोक्तृत्वं विचारितम् ।द्वितीये तु--अप्रधानं वत्सापाकरणं शाखाच्छेदे प्रयोजक- मित्याद्यप्रधानप्रयोक्तृत्वम् । तृतीये-जुहूपर्णमयीत्वादेरपापश्लोकश्रवणादिफलभावाभा- वचिन्ता । चतुर्थे–राजसूयगतजघन्याङ्गाक्षद्यूतादिचिन्ता ॥ श्रुत्यादिभिः क्रमस्तस्य विशेषो वृध्यवर्धने । श्रुत्यादेर्बलिता चेति पञ्चमाध्यायपादगाः ॥ १७ ॥ पञ्चमाध्यायस्य प्रथमे पादे--(४)श्रुत्यर्थपाठादिभिः क्रमो निरूपितः । द्वितीये- वाजपेयगतेषु सप्तदशसु पशुष्वेकैकधर्मसमापनमित्यादिक्रमविशेषः । तृतीये-(५)पञ्च- । १. अत्रादिपदेन संख्यासंज्ञागुणप्रकरणान्तराणि ग्राह्याणि । २, आदिपदेन स्थानसमाख्ययोर्ग्रहणम् । ३. उपयुक्तस्याऽऽकीर्णकरतानिवर्तकं कर्म प्रतिपत्तिकर्मेत्यभिधीयते । ४. आदिपदेन स्थानमुख्यप्रवृत्तयो बोध्याः । ५. 'समिधो यजति, तनूनपातं यजति, इडो यजति, बहिर्यजति, खाहाकार यजतीति वाक्यपञ्चकविहिता यागाः पञ्च प्रयाजपदेनाऽभिधीयन्ते । ,