४८ सविस्तरायां जैमिनीयन्यायमालायां [अ. १. पा.४.अधि.३ .
तिसृभिः स एकया स एकया, पञ्चभ्यो हिं करोति स एकया स तिसृभिः स एकया, पञ्चभ्यो हिङ्करति स एकया स एकया स तिसृभिः इति । एक सूक्तं त्रिरावर्तनीयम् । तत्रप्रथमावृत्तौ प्रथमाया ऋचस्त्रिरभ्यासः। द्वितीयावृत्तौ मध्यमायाः। तृतीयावृत्तावुत्त. मायाः। सोऽयं पञ्चदशस्तोमः । उक्तेभ्यश्चतुर्व्यः सूक्तेभ्य ऊर्ध्वमुत्तराग्रन्थे त्रीणि माध्यन्दिनपवमानसूक्त:न्याम्नाय तत ऊर्ध्वं च चत्वारि सूक्तान्याम्नात.नि । तेषु(१)"अभि त्वा शूर नोनुम"इत्याद्यम् । (२)"कया नश्चित्र आभुवदिति द्वितीयम् । (३)"तं वो दस्ममृतीषहम्” इति तृती- यम् ।(४)"तरोभिर्वो विदद्वसुमिति चतुर्थम् । एतानि क्रमेण रथन्तरवामदेव्यनौध- सकालेयसामभिर्माध्यन्दिनसवने गीयमानानि पृष्ठस्तोत्राणीत्युच्यन्ते (५)"स्पर्शनात्पृ- ष्टानि" इत्येवं निरुक्तिर्द्रष्टव्या । तेषु स्तोत्रेषु सप्तदशस्तोमो भवति । तस्य स्तोमस्य । लघुकायः कुशशब्देनोच्यते । तन्निक्षेपणप्रकारश्चाऽस्मत्पूज्यपादैः स्वसम्पादितताण्डय महाब्राह्मणभूमिकायां ३ पृष्ठे चित्ररूपेण दर्शितः, तत एव सोऽवगन्तव्यः । १. अभि त्वा शूर नोनुमो दुग्धा इव धेनवः । ईशानमस्य जगतस्स्वई शमीशानमिन्द्र तस्थुष : ॥ १ ॥ न त्वा वामन्यो दिव्यो न पार्थिवो न जातो न जनिष्यते । अश्वायन्तो मघवन्निन्द्र वाजिनो गव्यन्तस्त्वा हवामहे ॥ २ ॥ सा. सं. उ. १. १. ११. २. कया नश्चित्र आभुवदूती सदा वृधः सखा । कया शचिष्टया वृता ॥ १ ॥ कस्त्वा सत्यो मदानां मंहिष्टो मत्सदन्धसः । दृढाचि दारुजे वसु ॥ २ ॥ अभीषुणस्सखीनामविता जरितॄणाम् । शतं भवास्यूतये ॥ ३ ॥ सा. सं. उ. १. १. १२. ३. तं वोदस्म मृतीषहं वसोर्मन्दानमन्धसः । अभि वत्सं न खसरेषु धेनव इन्द्रं गीर्भिर्हवामहे ॥ १ ॥ युक्षं सुदानुं तविषीभिरावृतं गिरिं न पुरुभोजसम् । क्षुमन्तं वाजं शतिनं सहस्रिणं मक्षू गोमन्तममिहे ॥ २ ॥ सा. सं. उ. १. १. १३. ४. तरोभिर्वो विदद्वसुमिन्द्रं सवाध ऊतये । बृहद्गायन्तस्सुतसोमे अध्वरे हुवे भरं न कारिणम् ॥ १ ॥ न यंदुध्रा वरन्ते न स्थिरा मुरो मदेषु शिप्रमन्धसः । यं आदुत्या शशमानाय सुन्वते दाता जरित्र उक्थ्यम् ॥ २ ॥ सा. सं. उ. १. १. १४. ५. ताण्डयमहाब्राह्मणे “आपो वा ऋत्व्यमार्छन् तासां वायुः पृष्टे व्यवर्तत"