पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ग्रन्थावतरणिका ] प्रथमोऽध्यायः । ३ , वेदार्थविषयत्वेन श्रुतिमान् , यदीयं चरितमपि निरन्तरं श्रुतिमद्भवति, सोऽयं श्रुतिमत्प्रसङ्गचरितः । एवंविधो बुक्कभूपतिरन्तः परमेश्वरध्याने,वेदोक्तरहस्यार्थानुष्ठानरूपत्वेन बहिः प्रजापालने च नित्यं जागर्ति । यथा नीतिशास्त्रोक्तेषु सामभेदादिष्वयं कुशलः, तथा सर्वज्ञावतारत्वाद्धर्मशास्त्रोक्तेषु प्रमाणादिप्रसङ्गान्तेष्वध्यायार्थेषु कुशलः । ते चाऽध्या- यार्था उपरिष्टात्प्रदर्यन्ते ॥ राज्ञस्सर्वज्ञत्वं सोपपत्तिकं प्रकटयति 'यद्ब्रह्म प्रतिपाद्यत' इत्यादिना- यद्ब्रह्म प्रतिपाद्यते प्रगुणयत्तत्पञ्चमूर्तिप्रथां तत्राऽयं स्थितिमूर्तिमाकलयति श्रीबुक्कणक्ष्मापतिः । विद्यातीर्थमुनिस्तदात्मनि लसन्मूर्तिस्त्वनुग्राहिका तेनाऽस्य स्वगुणैरखण्डितपदं सार्वज्यमुद्दयोतते ॥३॥ सर्वासूपनिषत्सु प्रतीयमानं यत्परं ब्रह्म तदेव शैवागमेषु सृष्टिस्थितिसंहारनि- रोधनानुग्रहलक्षणपञ्चकृत्यसिध्यर्थमीशानतत्पुरुषाघोरवामदेवसद्योजातलक्षणानां पञ्चानां मूर्तीनां प्रथां प्रसिद्धिं विस्तारं वा प्रगुणयति प्रकटीकरोतीति प्रतिपाद्यते । तत्र तासु मूर्तिष्वयं भूपालः स्थितिमूर्ति धत्ते । तस्या मूर्तेरात्मनि लसन्विद्यातीर्थमुनिः कृत्स्नस्य जगतोऽनुग्राहिका मूर्तिरित्युच्यते । यस्मादयं भूपो वेदान्तोक्तं परं ब्रह्म, यस्माचाऽऽग- मोक्ता महेश्वरस्य स्थितिमूर्तिः, यस्माच श्रीविद्यातीर्थमुनिस्तदात्मनि संनिधाय प्रकाशते, तस्मात्सर्वज्ञत्वमस्य राज्ञ उत्कर्षेणाऽऽविद्वदङ्गनागोपालमविवादेन प्रतिभासते ॥ उक्तगुणोपेतस्य राज्ञो मन्त्रिणं नानापुराणप्रसिद्धदृष्टान्तर्हितकारितया प्रशंसति- इन्द्रस्याऽऽङ्गिरसो नलस्य सुमतिः शैब्यस्य मेधातिथि- धौम्यो धर्मसुतस्य वैन्यनृपतेः स्वौजा निमर्गौतमिः। प्रत्यग्दृष्टिररुन्धतीसहचरो रामस्य पुण्यात्मनो यद्वत्तस्य विभोरभूत्कुलगुरुर्मन्त्री तथा माधवः ॥ ४ ॥ चिकीर्षितग्रन्थे श्रद्धातिशयमुत्पादयितुं कर्तृगौरवं प्रकटयति- श्रुतिस्मृतिसदाचारपालको माधवो बुधः । स्मार्तं व्याख्याय सर्वार्थं द्विजार्थं श्रौत उद्यतः॥५॥ सर्ववर्णाश्रमानुग्रहाय पुराणसारपराशरस्मृतिव्याख्यानादिना स्मार्तो धर्मः पूर्वं व्याख्यातः । इदानीं द्विजानां विशेषानुग्रहाय श्रौतधर्मव्याख्यानाय प्रवृत्तः ॥ ग्रन्थमारिप्सुर्गुरुमूर्त्युपाधिकं सकलवेदशास्त्रप्रवर्तकत्वेनाऽत्रोचितेष्टदेवतारूपं परमेश्व- ,