पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/३६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

कल्पसूत्राधिकरणम् ] प्रथमोऽध्यायः । ३५ अस्मिन्नेवाऽधिकरणे गुरुमतमाह- अर्थाबोधादप्रमाणं पिकालम्भनचोदना । मैव, म्लेच्छ प्रसिद्धयाऽपि तद्बोधादाविरुद्धया ॥ २२ ॥ स्पष्टोऽर्थः । इति षष्टं पिकनेमाधिकरणम् ॥ ६ ॥ , अथ सप्तमं कल्पसूत्राधिकरणम् ॥ ७॥ (१)सप्तमाधिकरणमारचयति- अपौरुषेयाः कल्पाद्याः कृत्रिमा वा न कृत्रिमाः । श्रुतिस्मृत्योर्धर्मबुद्धेः स्वतो मात्वं यतः समम् ॥ २३ ॥ पुंनामोक्तेः पौरुषेयाः काठकाद्यसमत्वतः । तत्रोपलेभिरे केचिदापस्तम्बादिकर्तृताम् ॥ २४ ॥ बौधायनापस्तम्बाश्वलायनकात्यायनादिनामाङ्किताः(२) कल्पसूत्रग्रन्थाः, निगम- निरुक्तादिषडङ्गग्रन्थाः, मन्वादिस्मृतयश्चाऽपौरुषेयाः, धर्मबुद्धिजनकत्वात् , वेदवत् । न च मूलप्रमाणसापेक्षत्वेन वेदवैषम्यमिति शङ्कनीयम् । उत्पन्नाया बुद्धेः स्वतःप्रामा- ण्याङ्गीकारेण निरपेक्षत्वात् । मैवम् ; उक्तानुमानस्य कालात्ययापदिष्टत्वातू । बौधायनसूत्रम् , आपस्तम्बसू- त्रम् , इत्येवं पुरुषनाम्ना ते ग्रन्था उच्यन्ते । न च काठकादिसमाख्यावत्प्रवचननिमि- तत्वं युक्तम् । तद्ग्रन्थनिर्माणकाले तदानीन्तनैः कैश्चिदुपलब्धत्वात् । तच्चाऽविच्छिन्न- १. अत्र कल्पसूत्रादीनां स्मृत्यधिकरणन्यायेन वेदमूलकत्वेन प्रामाण्ये सिद्धेऽप्य- धुना तेषां वेदत्वेन वेदतुल्यतया वा प्रामाण्यमस्त्वित्युत्थानात्प्रत्त्युदाहरणसङ्गतिः । २. प्रयोगं कल्पयन्तीति व्युत्पत्या स्पष्टतया ये प्रयोगबोधकाः ते कल्पाः बौधायन- मशकादिभिर्महर्षिभिर्विरचिताः, प्रयोगं सूचयन्तीति व्युत्पत्या संज्ञापरिभाषादिभिर्ये प्रयोगं सूचयन्ति ग्रन्थाः, ते सूत्रपदाभिधेया आश्वलायनलाट्यायनादिभिर्महर्षिभिर्विर- चिताः । कल्पाश्च सूत्राणि च कल्पसूत्राणि इति वार्तिककारप्रभृतयः । वस्तुतस्तु उभये- षामप्यमीषां कल्पसूत्राणीति व्यवहारदर्शनात्कल्पसूत्रपदस्य कल्परूपाणि च तानि सूत्रा- णि चेति व्युत्पत्तिमङ्गीकृत्योभयेषां ग्रहणं भवितुमर्हति । अयमेव ग्रन्थकर्तुरप्यभिप्रे- > तोऽर्थः ।