पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/३५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३४ सविस्तरायां जैमिनीयन्यायमालायां [अ. १. पा. ३. अधि, ६ (वार्तिककारमतेन त्रिवृच्चर्वश्ववालाधिकरणम् ) तत्रैवाऽपरं वर्णकमारचयति- लौकिको वाक्यगो वाऽर्थस्त्रिवृदादेः समत्वतः। उभौ विध्यर्थवादैकवाक्यत्वादस्त्विहाऽन्तिमः ॥ १६ ॥ (१) त्रिवृद्धहिष्पवमानमिति श्रुतौ त्रिवृच्छब्दस्य गुण्यं लोकसिद्धोऽर्थः । वाक्य- शेषादृक्त्रयात्मकेषु त्रिषु सूक्तेष्ववस्थितानां बहिष्पवमानात्मकस्तोत्रनिष्पादनक्षमाणां 'उ- पास्मै गायता नरः' इत्यादीनामृचां नवकमर्थः । तत्र धर्मनिर्णये वेदस्य प्रबलत्वेऽपि पदपदार्थनिर्णये लोकवेदयो : समानबलत्वादुभावप्यौँ विकल्पेन ग्रहीतव्याविति चेत्- मैवम् ; लौकिकार्थस्वीकारपक्षे विधिवाक्येऽर्थस्वैगुण्यम् , अर्थवादवाक्ये स्तोत्री- याणामृचां नवकमित्येवं विध्यर्थवादयोर्वैय्यधिकरण्यादेकवाक्यत्वं न स्यात् । अत एकवाक्यत्वाय स्तोत्रीयाणां नवकमित्येव विधिवाक्ये नियतोऽर्थः ॥ इति पञ्चमं यववराहाधिकरणम् ॥ ५॥

, अथ षष्ठं पिकनेमाधिकरणम् ॥ ६॥ (२)षष्टाधिकरणमारचयति- कल्प्यः पिकादिशब्दार्थों ग्राह्यो वा म्लेच्छरूढितः । कल्प्य आर्येष्वसिद्धत्वादनार्याणामनादरात् ॥ २० ॥ ग्राह्या म्लेच्छप्रसिद्धिस्तु विरोधादर्शने सति । पिकनेमादिशब्दानां कोकिलाद्यर्थता ततः ॥ २१ ॥ आर्याः पिकादिशब्दं न काऽप्यर्थे प्रयुञ्जते, म्लेच्छाश्च न प्रमाणभूताः। तस्मान्नि गमनिरुक्तव्याकरणैः पिकनेमादिशब्दानामर्थः कल्पनीय इति चेत्-- मैवम् ; आर्यप्रसिद्धिविरोधस्याऽदृष्टत्वेनेदृशे विषये म्लेच्छप्रसिद्धरप्यादरणीय- त्वात् । कल्प्यमानादव्यवस्थितादर्थाद्वरं व्यवस्थिता म्लेच्छरूढिः। यत्रेदृश्या अपि रूढेरभावस्तत्र निरुक्तादयश्चरितार्थाः । तस्मादनार्यप्रसिद्धया पिकः कोकिलः, नेमश- ब्दोऽर्धवाची, तामरसशब्दः पद्मवाचीत्येवं द्रष्टव्यम् ॥ १. अस्य वाक्यस्याऽर्थः १. ४. ३ अधिकरणे टिप्पण्यां द्रष्टव्यः । २. अत्र शास्त्रस्थप्रसिद्धेः कल्प्यत्वेनाऽप्रामाण्यकथनात्पूर्वाधिकरणेनाऽस्याऽऽपवा- दिकी सङ्गतिर्द्रष्टव्या ।