पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

स्मृत्यधिकरणम् ] प्रथमोऽध्यायः। २७ , लता यथा भवति तथा प्रसर' इति । एवमादयो मन्त्रा यागप्रयोगेषूच्चार्यमाणा अदृष्टमेव जनयन्ति । न त्वर्थप्रकाशनाय तदुच्चारणम् । पुरोडाशप्रथनलक्षणस्याऽर्थस्य ब्राह्मणवाक्ये- नाऽपि भासमानत्वात् । 'उरु प्रथस्वेति पुरोडाशं प्रथयतीति हि ब्राह्मणवाक्यम् , इति चेत्- नैतद्युक्तम्--अर्थप्रत्यायनस्य दृष्टप्रयोजनस्य संभवे सति केवलादृष्टस्य कल्पयितु- मशक्यत्वात् । तस्मादृष्टमर्थानुस्मरणमेव यागप्रयोगे मन्त्रोच्चारणस्य प्रयोजनम् । ब्राह्मणवाक्येनाऽप्यर्थानुस्मरणसंभवे 'मन्त्रेणैवाऽनुस्मरणीयमिति यो नियमः, तस्य दृष्टा- संभवाददृष्टं प्रयोजनमस्तु । अत्रैव मतान्तरेण पूर्वोत्तरपक्षावाह- मन्त्रब्राह्मणयोर्यद्वा कलहो विनियोजने । न मन्त्रलिङ्गसिद्धार्थमनुवक्तीतरद्यतः ॥ १३ ॥ इति श्रीमाधवाचार्यविरचितायां जैमिनीयन्यायमालायां प्रथमाध्यायस्य द्वितीयः पादः ॥ अस्य मन्त्रस्य लिङ्गेन विनियोगे ब्राह्मणवाक्यमविवक्षितार्थं स्यात् । वाक्येन वि- नियोगे मन्त्रलिङ्गं न विवक्ष्येत इत्युभयोर्विरोधादप्रामाण्यं चोदनाया इति पूर्वः पक्षः। नाऽयं विरोधः; प्रबलेन हि लिङ्गेन विनियोगसिद्धौ वाक्यस्याऽनुवादकत्वादिति राद्धान्तः॥ इति श्रीमाधवाचार्यविराचते जैमिनीयन्यायमालाविस्तरे प्रथमाध्यायस्य द्वितीयः पादः ॥२॥ अथ प्रथमाध्याये तृतीयः पादः॥ प्रथमं स्मृत्यधिकरणम् ॥ १ ॥ (१)तृतीयपादस्य प्रथमाधिकरणमारचयति- अष्टकादिस्मृतेर्धर्मे न मात्वं मानताऽथवा । निर्मूलत्वान्न मानं सा वेदार्थोक्तौ निरर्थता ॥१॥ १. सर्वप्रमाणमूर्धन्यस्य विधेर्निरपेक्षतया धर्मप्रमितिजनकत्वात् प्रथमे पादे तस्य प्रामाण्यं निरूप्याऽनन्तरं द्वितीयपादे विध्येकवाक्यतया प्रामाण्यमासेदुषामर्थवादादीनां