२१० सविस्तरायां जैमिनीयन्यायमालायां [अ.३.पा.७.अधि. ४. तस्मिन्मन्त्रे अथ चतुर्थ अभिमर्शनस्याऽङ्गप्रधानहविरर्थताधिकरणम् ॥ ४ ॥ चतुर्थाधिकरणमारचयति- चतुर्होत्रा पौर्णमासीं मृशेदाज्यादिमर्शने । मन्त्रो मुख्य उताङ्गेऽपि मुख्य तद्वाचिशब्दतः ॥ ७ ॥ शब्दस्य कर्मवाचित्वात्तत्र मर्शनवर्जनात् । विभक्तिव्यत्यये मन्त्रो मुख्याङ्गहविपोर्द्वयोः॥८॥ दर्शपूर्णमासयोः श्रूयते-(१) "चतुर्होत्रा पौर्णमासीमभिमृशेत् , पञ्चहोत्रा- ऽमावास्याम्” इति । “पृथिवी होता" इत्यादिको मन्त्रश्चतुर्होता ।तस्मिन्मन्त्रे यज्ञाङ्गानां चतुर्णां श्रुतत्वात् । अथवा तस्य मन्त्रस्याऽभिमानित्वेनाऽऽत्मभूतः कश्चित् पुरुषः प्रजापतिना चतुर्वारमामन्त्रितः प्रत्युत्तरमुवाचेति स पुरुषश्चतुर्हुतः । तदी- यनाम्ना मन्त्रोऽपि 'चतुर्हतः' इत्युच्यते । पूज्यानां प्रत्यक्षनामग्रहणमयुक्तम् इत्य- भिप्रायेण हृतशब्दस्थाने होतृशब्दः पठ्यते । अयमर्थः सर्वोऽपि तैत्तिरीयब्राह्मणे श्रूयते-(२)"आत्मन्नात्मन्नित्यामन्त्रयत। तस्मै चतुर्थ हृतः प्रत्यशृणोत् । स चतु- र्हुतोऽभवत् । चतुर्हुतो ह वै नामैषः । तं वा एतं चतुर्हुतं सन्तम् । चतुहॊतेत्याचक्षते परोक्षेण । परोक्षप्रिया इव हि देवाः” इति । "अग्निर्होता" इत्यादिको मन्त्रः पञ्च- होता । तत्राऽप्युक्तप्रकारो द्रष्टव्यः । अत्र योऽयमाज्यादिहविष उपस्पर्शनार्थो मन्त्रः, असौ मुख्य एव हविषि निविशते, पौर्णमास्यमावास्याशब्दयोर्मुख्यहविर्विषयत्वात् इति प्राप्ते- ब्रूमः–पौर्णमास्यमावास्याशब्दौ कर्मवाचिनौ, न तु हविर्वाचिनौ । न च कर्म- णोरुपस्पर्शनसम्भवः । अथ कालविवक्षायां विभक्तिव्यत्ययेन सप्तम्यर्थो व्या- ख्यायेत, तदा कालसम्बन्धस्य मुख्याङ्गयोरुभयोस्तुल्यत्वादुभयविधहविरुपस्पर्शने मन्त्रो विनियुज्यते ॥ इति चतुर्थमभिमर्शनस्याऽङ्गप्रधानहविरर्थताधिकरणम् ॥ ४ ॥ १. तृसंज्ञकेन मन्त्रेण पौर्णमासयागसम्बद्धं हविः स्पृशेदित्यर्थः । २. ते. ब्रा. २. ३. ११. ४. अनाऽऽमन्त्रयिता प्रजापतिः । तस्मै प्रजापतये । अन्यत्सुगमम् ।
पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/२११
दिखावट