पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/२१०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सौमिकवेदेशप्रधानार्थताधिकरणम् ] तृतीयोऽध्यायः । २०९ मस्ति, येन परम्पराफलसाधनेष्वङ्गेषु वपनायुपकारः शङ्कयेत । प्रकरणं तु मुख्यस्यैव, न त्वङ्गानाम् । तस्मात् न तेषूपकारः ॥ इति द्वितीयं यजमानधर्माणां प्रधानार्थताधिकरणम् ॥ २ ॥ अथ तृतीयं सौमिकवेदेरङ्गप्रधानार्थताधिकरणम् ॥ ३ ॥ तृतीयाधिकरणमारचयति- मुख्यार्था सौमिकी वेदिरुभयार्थोत मुख्यगा । चिकीर्षितत्वान्मुख्यस्य वेद्यां तत्कृतिसंभवात् ॥ ५॥ मुख्यपौष्कल्यहेतुत्वात्तदङ्गं च चिकीर्षितम् । मुख्यवत्तेन तद्वेदिरङ्गेष्वप्युपकारिणी ॥ ६॥ दार्शिकी वेदि मध्येऽन्तर्भाव्य(१)प्राचीनवंशो मण्डपोऽवस्थितः । ततः पूर्वस्यां दिशि सदोहविर्धानादीनां पर्याप्तो भूभागविशेषः । तैः सदःप्रभृतिभिः सह सौमिकी वेदिरित्युच्यते । सेयं मुख्यस्य सोमयागस्यैवोपकारं करोति, न त्वमुख्यानामग्नीषोमी- याद्यङ्गानाम् । कुतः ? मुख्यस्य चिकीर्षितत्वात् । न च अङ्गान्यपि चिकीर्षितानि इति वाच्यम्। चिकीर्षास्वरूपस्य वेदेनैवाऽभिहितत्वात् । एवं श्रूयते-(२) “षट्त्रिंशत्प्र- क्रमा प्राची, चतुर्विंशतिरग्रेण, त्रिंशज्जघनेन, इयति शक्ष्यामहे” इति । अस्याऽयमर्थः- श्रूयमाणेनाऽनेन दैर्ध्यप्रमाणेन तिर्यक्प्रमाणद्वयेन च प्रमिते भूभागे फलहेतुसोमयागं कर्तुं शक्ष्यामहे इति निश्चित्य तथैव कुर्यात् इति । सेयं चिकीर्षा मुख्यविषया “इयति शक्ष्यामहे” इति परिमाणस्य शक्तेश्चोपन्यासात् । अङ्गानां तु पशुनामिष्टीनां च सदो- हविर्धानादिमण्डपनिरपेक्षाणां यथोक्तपरिमाणमन्तरेणाऽप्यनुष्ठातुं शक्यत्वात्स उपन्यास. स्तत्र निरर्थकः । सोमस्य त्वनुष्ठानं यथोक्तवेद्यामेव संभवति, न त्वन्यत्र । तस्मात् सा वेदिर्मुख्यस्यैवोपकरोति इति प्राप्ते-- ब्रूमः-"इयति शक्ष्यामहे' इत्यत्र साङ्गप्रधानानुष्ठाने शक्तिरुक्ता, तादृशस्यैव फलं प्रति पुष्कलहेतुत्वात् । अतो मुख्याङ्गयोश्चिकीर्षायास्तुल्यत्वाद्वेदिरुभयार्था । न च अत्र वपनादिसाम्यं शङ्कनीयम् , दृष्टोपयोगाभावस्य तत्रोक्तत्वात् । इह तु हविरासा- दनादिर्दृष्ट उपयोगः । स च मुख्याङ्गयोः सम इत्युभयार्थत्वम् ॥ इति तृतीयं सौमिकवेदेरङ्गप्रधानार्थताधिकरणम् ॥ ३ ॥ -- १. अस्य स्वरूपं ३. ४. १४. अधिकरणे निरूपतम् । २. मै. सं. ३.८.४.