पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/२०७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२०६ सविस्तरायां जैमिनीयन्यायमालायां .[अ. ३. पा. ६. अधि. १६ अथ षोडशं संस्थाधिकरणम् ॥ १६ ।। षोडशाधिकरणमारचयति- उक्थ्यादिषु समो दीक्षणीयाद्यङ्गविधिर्न वा । एकप्रकरणत्वेन फलवत्त्वाच्च तुल्यता ॥२७॥ उक्थ्यादयः कामयोगाद्विकाराः प्रक्रिया ततः । अग्निष्टोमात्मके ज्योतिष्टोममात्रे च तद्विधिः ॥ २८ ॥ इति श्रीमाधवाचार्यविरचितायां जमिनीयन्यायमालायां तृतीयाध्यायस्य षष्ठः पादः ॥ ज्योतिष्टोमः स्वयमेकोऽपि समाप्तिभेदाद्भिद्यते । (१)यज्ञायज्ञियस्तोत्रेण स- माप्तौ 'अग्निष्टोमः' इत्युच्यते । तस्मादपि स्तोत्रादूर्ध्वमुक्थ्यस्तोत्रेण समाप्तौ 'उक्थ्यः' इत्युच्यते । एवं षोडश्यादयोऽपि । तादृशस्य (२)सप्तसंस्थावतो ज्योतिष्टोमस्य प्रकरणे दीक्षणीयेष्टिप्रायणीयेष्ट्यादीनामङ्गानां विधिराम्नातः । स च विधिर्ज्यॊतिष्टोमस्य प्रथम- संस्थाविशेषेऽग्निष्टोमे यथा प्रवृत्तः, तथैवोक्थ्यादिष्वपि प्रवर्तते । कुतः ? प्रकरणसम्ब- न्धस्य समानत्वात् । किंच यथाऽग्निष्टोमः फलवत्वादङ्गविधिभिः संयुज्यते । एवमु- क्थ्यादयोऽपि । तेषां च फलमेवमाम्नायते "पशुकाम उक्थ्यं गृह्णीयात्” “षोडशिना वीर्यकामः स्तुवीत” “अतिरात्रेण प्रजाकामं याजयेत्” इति । तस्मात् सप्तस्वपि संस्थासु समानोऽङ्गविधिः इति प्राप्ते- ब्रूमः-यदेतदुक्थ्यादीनां फलमुदाहृतम् , तत्तु तेषां विकारत्वं गमयति । 'का: म्यो गुणः श्रूयमाणो नित्यमर्थं विकृत्य निविशते' इति न्यायाद्यथा गोदोहनगुणो नित्यं चमससाधनकमपां प्रणयनं विकृत्य निविशते, एवमुक्थ्यगुणो नित्यामग्निष्टोमस्य संस्थां विकृत्य संस्थान्तरत्वं गमयति । ततोऽग्निष्टोमस्य गुणविकारा उक्थ्यादय इति न १. “यज्ञा यज्ञा वो अग्नये गिरागिरा च दक्षसे । प्र प्रवयममृतं जातवेदसं प्रियं मित्रं न शंसिषम्” इत्यस्यामृच्युत्पन्नं अग्निष्टोमाख्यं साम । तेन साम्ना क्रियमाणं. स्तोत्रं यज्ञायज्ञियस्तोत्रं अग्निष्टोमस्तोत्रं चोच्यते । २. अग्निष्टोमः, अत्यग्निष्टोमः, उक्थ्यः, षोडशी,अतिरात्रः, वाजपेयः, अप्तोर्यामः, इति संस्थाः सप्त । संस्थाशब्दः समाप्तिवाची, येन स्तोत्रेण यः क्रतुस्समाप्तिमेति, स तत्संस्थाको व्यपदिश्यते । 1