प्रतिनिधिषु मुख्यधर्मानुष्ठानाधिकरणम् ] तृतीयोऽध्यायः २०५ " अथ चतुर्दशं मुख्यप्रतिनिध्योस्सामानविध्याधिकरणम् ॥ १४ ॥ चतुर्दशाधिकरणमारचयति- नीवारादिप्रतिनिधेरतुल्यो वा विधिः समः । पुरेवाऽतुल्यता साम्यमाकाराद्नव्रीहिता यतः ॥ २५ ॥ "व्रीहिभिर्यजेत" इति विहितानां व्रीहीणामसम्भवे नीवाराः प्रतिनिधित्वेन स्वीका- र्या इति (१)वक्ष्यते । तत्र पूर्वन्यायेनाऽवघातादिविधयो व्रीहिषु कृतार्थाः पश्चाद्भाविनि नीवारादौ न प्रवर्तन्त इति चेत्- मैवम् ; व्रीहिशब्दो हि वोपेतं द्रव्यमाचष्टे। नी- वारेषु जातितो व्रीहिशब्दार्थत्वाभावेऽप्याकारतो व्रीहिशब्दार्थत्वेन "व्रीहीनवहन्ति" इति विधिः प्रवर्तते । यथा व्रीहिजातावेव समीचीनानां व्रीहीणामभावे जलवह्नयाद्युप- घातेन सारविकलेष्वपि विधिः, तथा जातिविकलेष्वपि व्रीहजातिविशेषेणाऽऽकारविशेषेणिषु मुख्यैकदेशरूपत्वाद्विधि- रस्तु।। इति चतुर्दशं मुख्यप्रतिनिध्योस्सामानविध्याधिकरणम् ॥ १४ ॥ 2 रस्तु ॥ अथ पञ्चदशं प्रतिनिधिषु मुख्यधर्मानुष्ठानाधिकरणम् ॥१५॥ पञ्चदशाधिकरणमारचयति- पूतीकाभिषवोऽतुल्यस्तुल्यो वा सोमतुल्यता । नास्ति नैमित्तिकत्वेन तुल्यः प्रतिनिधित्वतः॥ २६ ॥ (२)“यदि सोमं न विन्देत, पूतिकानभिषुणुयात्" इति श्रूयते । तत्र सोमाभावं निमित्तीकृत्य पूतीकलताखण्डानां विहितत्वात्फलचमसवन्नैमित्तिकत्वेन सोमाभिषवक्र. यादिविधिः पूतीकेषु न तुल्य इति चेत्- मैवम् नीवारवत्प्रतिनिधित्वात् । ननु प्रतिनिधित्वे स्वयमेवोपादित्सितत्वाद्विधि- र्नापेक्षितः । अत एव नीवारेषु विधिर्न श्रुतः इति चेत्-न; विधेर्नियमार्थत्वस्य(३) षष्ठे वक्ष्यमाणत्वात् । तस्मात् अभिषवक्रयादिविधिः सोमपूतीकयोस्तुल्यः ॥ इति पञ्चदशं प्रतिनिधिषु मुख्यधर्मानुष्ठानाधिकरणम् ॥ १५ ॥
- १. षष्ठतृतीयचतुर्थाधिकरणे ।। २. तां. व्र'. ९.५. ३. पूतीकाः सोमलतासदृशा लताविशेषाः । सोमलताया अलाभे तत्स्थाने पूतीकानानीय तान् अभिषवादिसंस्कारैः संस्कृत्य तद्रसेन यागमभिनिवर्तये- दिति विषयवाक्यार्थः । ३. षष्ठाध्याये तृतीय पादे त्रयोदशाधिकरणे । १८ जै० न्या.