पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/२०२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ग्रहधर्माणां सवनत्रयार्थताधिकरणम् ] तृतीयोऽध्यायः । २०१ यूपं परिवीयाऽऽग्नेयं सवनीयं पशुभुपाकरोति" इति। आनुबन्ध्यस्त्ववभृथान्ते समाम्नातः । ततः सन्निधिना ते धर्मा अग्नीषोमीये सम्बध्यन्ते, सवनीयानुबन्ध्ययोस्तु चोदकादतिदि- श्यन्ते ॥ इति सप्तमं पशुधर्माणा मग्नीषोमीयार्थत्वाधिकरणम् ॥ ७ ॥ अथाऽष्टमं शाखाहरणादीनामुभयदोहार्थताधिकरणम् ॥८॥ अष्टमाधिकरणमारचयति- शाखाच्छेदादयो दोहे धर्माः सायं व्यवस्थिताः । प्रातश्च सन्ति वा सायं स्थानात्ते पूर्ववत्स्थिताः ॥१६॥ आनर्थक्यप्रतिहतिः पूर्ववन्नेह विद्यते । बलिनोऽतः प्रकरणात्प्रातर्दोहेऽपि सन्ति ते ॥ १७ ॥ दर्शपूर्णमासप्रकरणे-पलाशशाखाच्छेदनम् , तया शाखया (१)वत्सापाक- रणम् , इत्यादयो दोहधर्माः समाम्नाताः । दोहौ च द्वौ विद्येते-अमावास्यायां (२) रात्रावेको दोहः, प्रतिपदि प्रातरपरो दोहः । तत्र पूर्वन्यायेन प्राथमिके सायंदोहे प्रथ- मश्रुतास्ते धर्मा व्यवतिष्ठन्ते इति चेत्- मैवम् ; वैषम्यात् । पूर्वत्र हि सोमे विशसनादिधर्माणामनन्वयात्प्रकरणं (३)आ- नर्थक्यप्रतिहतम् । इह तु नाऽस्त्यानर्थक्यप्रतिहतिः । ततः प्रकरणेन स्थानं बाधित्वा द्वयोर्दोहयोस्ते धर्मा अभ्युपेयाः ॥ इत्यष्टमं शाखाहरणादीनामुभयदोहार्थताधिकरणम् ॥ ८ ॥ , अथ नवमं ग्रहधर्माणां सवनत्रयार्थताधिकरणम् ॥ ६ ॥ नवमाधिकरणमारचयति- ग्रहधर्माः सादनाद्याः प्रातस्सवन एव ते । त्रिषु वा निश्चितस्थानादाद्यः पूर्ववदुत्तरः ॥ १८ ॥ १ गोवत्सानां स्वस्त्रमातृभ्यः पृथक्करणम् । २. रात्रौ दोहो दधिसम्पादनार्थः । ३. 'आनर्थक्यप्रतिहतानां विपरीतं बलाबलम्' इति न्यायेन प्रकरणमन्यत्र चरि- तार्थं अचरितार्थेन सन्निधिना बाध्यत इति युक्तमिति भावः ।