पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/२०१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२०० सविस्तरायां जैमिनीयन्यायमालायां [अ.३. पा. ६. अधि.७ अथ सप्तमं पशुधर्माणामग्नीषोमीयार्थत्वाधिकरणम् ॥ ७ ॥ सप्तमाधिकरणमारचयति- अग्नीषोमीयसवनीयानुबन्ध्यपशुष्वमी । उपाकरणमुख्यास्तु धर्माः साधारणा न वा ॥ १३ ॥ ज्योतिष्टोमप्रकरणे पाठात्साधारणा अमी। पशुधर्माग्रहात्सोमयागे ते स्युर्निरर्थकाः ॥ १४ ॥ अग्नीषोमीयधर्मत्वं तेषां स्थानात्प्रसिध्यति । द्वयोरितरयोः पश्योः प्राप्यन्ते चोदकेन ते ॥ १५॥ अग्नीषोमीयः, सवनीयः, आनुबन्ध्यश्च इत्येते त्रयः पशवो ज्योतिष्टोमप्रकरणे समाम्नाताः । (१)पशुधर्माश्चोपाकरणपर्यग्निकरणादयस्तत्राऽऽम्नाताः । (२)"प्रजा- पतेर्जायमानाः” (३)“इमं पशुम्” इत्याभ्यामृग्भ्यां पशोः (४) उपस्पर्शन मुपाकर- णम् । दर्भज्वालया त्रिः प्रदक्षिणीकरणं पर्यग्निकरणम् । त एते धर्मास्त्रिष्वपि पशुषु साधारण्येन विधीयन्ते । त्रयाणामपि ज्योतिष्टोमप्रकरणपाठसाम्यात् । ननु ज्योतिष्टोमस्य प्रकरणे पठितानेतान्धर्मान् स एव ग्रहीष्यति, न तु पशव इति चेत्-न; तस्य सोमयागत्वात् । सोमो (५)ह्यभिषवादीन्धर्मानाकाङ्क्षति, न तु यूपनि- योजनविशसनादीन् । तस्मात् अङ्गिन्यनर्थकाः सन्तोऽङ्गेषु निविशमाना अविशेषतस्त्रिष्व- पि प ष्ववतिष्ठन्ते इति प्राप्ते- ब्रूमः-अस्त्यत्र विशेषः सन्निधिलक्षणः । (६)सौत्यनामकादह्नः प्राचीन औप- वसथ्यनामकेऽह्नि (५)धिष्ण्यनिर्माणादूर्ध्वमेते धर्मा आम्नाताः । अग्नीषोमीयस्याऽपि तदेव स्थानम् । सवनीयस्तु सौत्येऽहनि (८)श्रूयते-"आश्विनं ग्रहं गृहीत्वा त्रिवृता १. पशौ अनुष्ठीयमानानि पश्वङ्गानि पशुधर्माः । २. "प्रजापतेर्जायमानाः प्रजा जाताश्च या इमाः । तस्मै प्रति प्रवेदय चिकित्वा अनुमन्यताम्" । तै. सं. ३. १. ४. इति समग्रो मन्त्रः । ३. “इमं पशुं पशुपते ते अद्य बध्नाम्यग्ने सुकृतस्य मध्ये । अनुमन्यस्व सुयजा यजाम जुष्टं देवानामिदमस्तु हव्यम्" । तै. सं. ३. १. ४. इति समग्रो मन्त्रः । ४. अनोपस्पर्शनं न हस्तेन, किन्तु कुशाभ्यां प्लक्षशाखया च विधिबलात् । ५. अभिषवो रस निष्पीडनम् । ६. सोमसम्बन्धी अभिषवग्रहचमसादिग्रहणहोमभक्षणा दिव्यापारो यस्मिन् दिनेऽ. नुष्ठीयते तत् सौत्यमहः । मैत्रावरुणादीनां स्थानविशेषाः स्थण्डिलाकाराः धिष्ण्याः । ८. सौत्येऽहन्येव 'आश्विनो दशमो गृह्यते' इत्यनेन आश्विनस्य दशमस्थानवि- धानात् तदनन्तरमेव सवनीयस्य पशोविधानादिति भावः ।