१९६ सविस्तरायां जैमिनीयन्यायमालायां [अ.३.पा.६.अधि.२. जुहूमाश्रित्य पर्णत्वविधिः प्रकृतिमात्रगः । चोदकेनोभयप्राप्तेर्विकृतौ विधिनाऽत्र किम् ॥ २॥ अनारभ्य श्रूयते-(१)“यस्य पर्णमयी जुहूर्भवति, न स पापं श्लोकं शृणोति" इति । तत्र अव्यभिचरितक्रतुसम्बन्धवती जुहूमाश्रित्य तद्धेतुः पर्णवृक्षो वाक्येन विधी- यते-'या जुहूः सा पर्णमयी' इति । वाक्यं च प्रकृतिविकृत्योस्तुल्यमेव प्रवर्तते, उभयत्राऽऽश्रयभूताया जुह्वाः सत्त्वात् । तस्मात् प्रकृतिविकृत्योरुभयोरप्ययं विधिः इति प्राप्ते- ब्रूमः-किमयं विधिर्विकृतौ (२)चोदकात्पूर्व निविशते, पश्चाद्वा ? नाऽऽद्यः, आश्रयभूताया जुह्वाश्चोदकमन्तरेणाऽसम्भवात् । द्वितीये तु पर्णत्वमपि जुह्वा सहैव चो- दकेनाऽतिदिश्यते । तत्र पुनर्विधिवैयार्थ्यादयं विधिः प्रकृतिमात्रगः । एवं (३) “यस्य खादिरः स्रुवो भवति" इत्युदाहरणीयम् ॥ इति प्रथमं पर्णमय्यधिकरणम् ॥ १ ॥ - अथ द्वितीयं सामिधेन्यधिकरणम् ।।२।। द्वितीयाधिकरणमारचयति- सामिधेनीः सप्तदश प्रकृतौ विकृतावुत । पूर्ववत्प्रकृतौ पाञ्चदश्येनैतद्विकल्प्यते ॥ ३ ॥ विकृतौ साप्तदश्यं स्यात्प्रकृतौ प्रक्रियावलात् ! पाञ्चदश्यावरुद्धत्वादाकाङ्क्षाया निवृत्तितः॥४॥ अनारभ्यश्रूयते-“सप्तदश सामिधेनीरनुब्रूयात्” इति । (४)"प्रवो वाजा अभि- द्यवः' इत्याद्या अग्निसमिन्धनार्था ऋचः सामिधेन्यः। तासां साप्तदश्यं (५)पूर्वन्यायेन प्रकृतिगतम् । यदि प्रकृतौ ‘पञ्चदश सामिधेनीरन्वाह' इति विधिः स्यात् ,तर्हि पाञ्चद- श्यसाप्तदश्ये विकल्पेयातामिति प्राप्ते- ब्रूमः-विकृतावेव साप्तदश्यं निविशते, प्रकृतौ पाञ्चदश्येनाऽवरुद्धानां सामिधेनीनां पात्रविशेषः पर्णमयी, ( पर्णशब्दोऽत्र पलाशवृक्षवाची ) पलाशवृक्षनिर्मिता भवेत् सः यजमानः पापं श्लोकं अपयशः न शृणुयादित्यर्थः । २. चोदकात् अति१. ते. सं. ३.५.७.२. यस्य यजमानस्य (यागे) जुहूः तत्संज्ञकः होमसाधनीभूतः देशात् । ३. तै. सं. ३. ५. ७. १. खादिरः खदिरवृक्षनिर्मितः। ४. तै. ब्रा. ३. ५. २. ५. 'अनारभ्याधीतानां प्रकृतिगामित्वं' इति न्यायेन । तर्हि पाञ्चद- -
पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/१९७
दिखावट