पर्णमय्यधिकरणम् ] तृतीयोऽध्यायः। १९५ आद्यो मानात्संख्ययैकजातेर्विप्राः शतं दश । चमसानद्युरित्युक्त्या राजपात्रं च विप्रगम् ॥ ३५ ।। इति श्रीमाधवाचार्यविरचितायां जैमिनीयन्यायमालायां तृतीयाध्यायस्य पञ्चमः पादः ॥ - , राजसूये दशपेयनामके यागे श्रूयते-(१)“दश दशैकैकं चमसमनुप्रसर्पन्ति" इति । तत्र यजमानस्य राजन्यस्य यश्चमसः, सोऽयं राजन्यैरेव दशभिर्भक्षणीयः । कुतः ? 'दश' इति संख्यया जात्येकत्वप्रतिभानात् । तथा हि-दशपेयस्य ज्योतिष्टो- मविकृतित्वात्प्राकृतं धर्मजातं चोदकेन प्राप्तम् । प्रकृतौ च यजमानचमसस्य भिन्न- जातिभिर्भक्षणं नाऽस्ति, इत्यत्राऽपि तथैव प्राप्तम् । यदि अत्र 'दश' इति विशेषो विधीयेत, तर्हि प्राकृतं भक्षसंख्यामानं निवर्तताम् । न त्वेकजातित्वम् । तस्मात् राजन्यो यजमानोऽन्यै राजन्यैर्नवभिस्सह भक्षयेत् इति प्राप्ते- ब्रूमः-प्रकृतितः प्राप्तेषु दशसु चमसेषु भक्षणायानुप्रसर्पतां पुरुषाणां दश, दश, इति वीप्सया प्रतिचमसं दशसंख्यां विधायार्थसिद्धां शतसंख्यामनूद्य संख्येयानां सर्वेषां ब्राह्मण्यं विधीयते-(२) “शतं बाह्मणाः पिबन्ति” इति । तथा सति यजमा- नस्याऽपि राजन्यस्य यत्र चमसभक्षो नाऽस्ति, तत्र कुतोऽन्ये राजन्या भक्षयेयुः । तस्मात् ब्राह्मणा एव भक्षकाः ॥ इति श्रीमाधवाचार्यविरचिते जैमिनीयन्यायमालाविस्तरे तृतीयाध्यायस्य पञ्चमः पादः ।। ५ ॥ "" अथ तृतीयाध्यायस्य षष्ठः पादः ॥ तत्र प्रथमं पर्णमय्यधिकरणम् ।। १ ।। षष्ठपादस्य प्रथमाधिकरणमारचयति- प्रकृतौ विकृतौ वा स्याद्यस्य पर्णेत्यसौ विधिः। प्रकृतावेव वा तुल्याद्वचनादुभयोरसौ ॥ १ ॥ १. श. ब्रा. ५. ४. ५. ३. होमार्थं आहवनीयदेशं प्रति नीयमानमेकैक चमसं दशपुरुषाः अनुगच्छेयुः इत्यर्थः । २. श. बा.५.४.५.४.
पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/१९६
दिखावट