पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/१९४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

स्वयं यष्टुर्भक्षाधिकरणम् ] तृतीयोऽध्यायः । १९३ अनुज्ञापनस्याऽदृष्टं प्रयोजनम् । तच्च विभिन्नपात्रेष्वपि समानमिति चेत्- न; दृष्टप्रयोजनस्य सद्भावात् । साधारणे वस्तुनि कथंचिद्भागाधिक्येऽपराधो भवति । अतो न्यूनाधिकत्वपरिहारनिमित्तमनुज्ञापनमेकपात्रिणामेव ॥ इति सप्तदशं एकपात्राणामनुज्ञापनाधिकरणम् ॥ १७ ॥ - , अथाऽष्टादशं स्वयं यष्टुर्भक्षाधिकरणम् ॥ १८ ॥ अष्टादशाधिकरणमारचयति- होतुर्याज्यापनीतौ किं न वषट्कारभक्षयोः । अपनीतिरुताऽपायो नाऽपनीतिर्विभेदतः ॥ २६ ।। यजमानेन यष्टव्यं न विनेष्टिर्वषट्कृतिम् । वषट्कारो याज्ययाऽतः सहापैत्यदनं तथा ॥३०॥ ज्योतिष्टोम ऋतुयाजनामकेषु यागेष्वाम्नायते-(१)"यजमानस्य याज्या, सो. ऽभिप्रेष्यति होतरेतद्यज इति, स्वयं वा निषद्य यजति" इति । हौत्रे काण्डे समाम्नाता याज्याः समाख्यया होतुः प्राप्ताः । तासु काचिद्याज्या होतुरपनीय यजमानस्य विधी- यते । ततो यजमानः स्वेच्छया होतारं वा प्रेष्यति, स्वयं वा याज्यां पठति । तत्र स्वपाठपक्षे याज्या होतुरपनीयते । न तु वषट्कारभक्षावपनीयते । तयोर्याज्यायामन- न्तर्भावात् । अतो होता वषट्करोति भक्षयति च इति प्राप्ते- ब्रूमः-"स्वयं वा निषद्य यजति" इति पक्षस्वीकारायजमानेन स्वयं यागः कर्तव्यः। स च यागो वषट्कारमन्तरेण न संभवति, (२)“याज्याया अधि वषट्करोति" इति तद्विधानात् । ननु यजमानो याज्यां पठतु, होता वषट्करोतु, इति चेत्-मैव- म् ; (३) “अनवानन् यजति" इति याज्यावषट्कारयोर्मध्ये श्वासनिषेधेनैककर्तृकत्वाव. गमात् । अतो याज्यया सह वषट्कारो होतुरपैति । तदपाये वषट्कारनिमित्तो भक्षश्च होतुरपेत्य यजमाने निविशते ॥ इत्यष्टादशं स्वयं यष्टुर्भक्षाधिकरणम् ॥ १८ ॥ , १. इयं याज्या यजमानकर्तृकैव । तत्र होतारं प्रेरयेत्-भवान् पठत्विमां याज्या- मिति । अथवा स्वयमेवोपविश्य पठेदित्यर्थः । २. याज्यां पठित्वा तदन्ते वषट्कारं वौषट् वषट् इत्यादिकं पठेदित्यर्थः । ३. अनवानन् अनुछ्वसन् । १७ जै० न्या०