पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/१९३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१९२ सविस्तरायां जैमिनीयन्यायमालायां [ अ.३.पा.५.अधि.१७ अथ पञ्चदशं वैदिकवचनेनाऽनुज्ञापनाधिकरणम् ॥ १५ ॥ पञ्चदशाधिकरणमारचयति- किमनुज्ञा लौकिकोक्त्या वेदोक्त्या वा यथा तथा । अविशेषादुपह्वानमन्त्रलिङ्गात्तु वैदिकी ॥ २५ ॥ "उपहूत उपह्वयस्व” इत्ययं मन्त्रो लिङ्गेन अनुज्ञायां विनियुज्यते । तस्मात् वैदिकोक्त्या तदनुज्ञानम् ॥ इति पञ्चदशं वैदिकवचनेनाऽनुज्ञापनाधिकरणम् ॥ १५ ॥ अथ षोडशं वैदिकवाक्येन प्रतिवचनाधिकरणम् ॥ १६ ॥ षोडशाधिकरणमारचयति- उपह्वयस्वोपहूत इत्यशेषो द्वयोर्भवेत् । अनुज्ञानुज्ञापनयोरथवाऽसौ विभज्यते ॥ २६ ॥ विभागकारणाभावादशेषश्चेन्न लिङ्गतः । उपह्वयेत्यनुज्ञप्तावनुज्ञाने तथेतरः ॥ २७ ॥ "उपहृत उपह्वयस्व' इत्यस्मिन्मन्त्रे मध्यमपुरुषैकवचनान्तो भागः पश्चात्पठि- तोऽपि प्रश्नसमत्वात्प्रथमभाविन्यनुज्ञापने समर्थः । प्रथमैकवचनान्तस्तु प्रथमपठितोऽ. प्युत्तरसमानत्वात्पश्चाद्भाविन्यामनुज्ञायां समर्थः तस्मात् लिङ्गेन विभज्य विनियुज्यते ॥ इति षोडशं वैदिकवाक्येन प्रतिवचनाधिकरणम् ॥ १६ ॥ । अथ सप्तदशं एकपात्राणामनुज्ञापनाधिकरणम् ॥ १७ ॥ सप्तदशाधिकरणमारचयति- उपह्वानमशेषाणामुत स्यादेकपात्रिणाम् । अदृष्टहेतोराद्यः स्यादृष्टाधिक्यादितोऽन्तिमः ॥ २८ ॥