अरुणाधिकरणम् ] तृतीयोऽध्यायः । १२३ > वाक्यस्योद्धननादेः स्याद्वैयर्थ्यं सङ्करे सति । अनुवादो ह्यायुधोक्तिर्व्यवस्था तेन पूर्ववत् ॥ १० ॥ दर्शपूर्णमासयोः श्रूयते—(१)स्फ्यश्च कपालानि चाऽग्निहोत्रहवणी च शूर्प च कृष्णाजिनं च शम्या चोलूखलं च मुसलं च दृषच्चोपला चैतानि वै दश यज्ञायुधानि" इति । स्फ्यशब्देन खड्गाकारं काष्टमुच्यते । अग्निहोत्रहवणी निर्वापसाधनं काष्ठपा- त्रम् । शम्या गदाकारं काष्टम् । तत्र व्रीह्यादिद्रव्येष्यवघातादिसंस्काराणां साङ्कयें निराकृतेऽपि स्फ्यकपालादिद्रव्याणामुद्धननपुरोडाशश्रपणाद्यङ्गक्रियासु साङ्कर्यं निराकर्तुम- शक्यम् , येन केनाऽपि द्रव्येण यस्यां कस्यांचित्क्रियायां कृतायामपि श्रूयमाणस्य यज्ञा- युधत्वस्याऽविरोधात् । न ह्यव्यवस्थामात्रेण यज्ञसाधनत्वमपैतीति प्राप्ते- ब्रूमः-(२)“स्फ्येनोद्धन्ति” “कपालेषु श्रपयति”“अग्निहोत्रहवण्या हवींषि निर्व- पति, “शूर्पेण विविनक्ति "कृष्णाजिनमधस्तादुलूखलस्याऽवस्तृणाति” “शम्यया दृष- दमुपदधाति” “उलूखलमुसलाभ्यामवहन्ति” “दृषदुपलाभ्यां पिनष्टि" इत्येतेषां विशे- षसंयोगबोधकानां वाक्यानां वैयर्थ्यं साङ्कर्यपक्षे प्रसज्येत । व्यवस्थापक्षेऽपि सम्बन्ध. सामान्यबोधकं यज्ञायुधवाक्यमनर्थकमिति चेत्--न; उद्धननादिवाक्यसिद्धार्थानुवा-
दत्वात् । न च वैपरीत्येनोद्धननादिवाक्यानामेवाऽनुवादत्वमिति वाच्यम् । बहुवैयर्थ्यस्य जघन्यत्वात् । न चाऽत्यन्तं यज्ञायुधानुवादस्य वैयर्थ्यम्,(३)"यज्ञायुधानि सम्भरन्ति" इत्यासादनविधानायोपयुक्तत्वात् । तस्मात् अवघातादिसंस्कार इव स्फ्यकपालादिद्र- व्याणि व्यवस्थितानि ॥ इति पञ्चमं स्फ्याधिकरणम् ॥ ५॥ " " " अथ षष्ठमरुणाधिकरणम् ॥ ६ ॥ षष्ठाधिकरणमारचयति- क्रीणात्यरुणयेत्येतत्सङ्कीर्णं वा क्रयैकभाक् । क्रयेणाऽनन्वयात्कीर्णः सर्वद्रव्येषु रक्तिमा ॥ ११ ॥ द्रव्यद्वारा क्रये योगात्तद्भागे चाऽन्वयः पुनः । साक्षात्क्रये गुणस्याऽर्थाद्द्रव्ये सन्निहिते त्वसौ ॥ १२ ॥ १. ( तै. सं. १. ६. ८. ३.) यज्ञायुधानि यज्ञसाधनानि। अन्यत्सर्वं स्पष्टम् । २. दर्शपूर्णमासप्रकरणस्थानीमानि वाक्यानि । ३. यानि यज्ञपत्राणिपूर्वोक्तानि, तानि गार्हपत्यस्याऽऽहवनीयस्य वोत्तरतस्सादये- युरित्यर्थः ।