पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/१२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

- १२२ सविस्तरायां जैमिनीयन्यायमालायां [अ. ३. पा. १. अधि. ५ अथ चतुर्थ तेषामर्थाधिकरणम् ॥ ४ ॥ चतुर्थाधिकरणमारचयति- श्रुता ब्रीह्याज्यसांनाय्यधर्माः साङ्कर्यगामिनः । व्यवस्थिता वा, साङ्कर्यं फलापूर्वेण सङ्गतेः॥७॥ अवान्तरापूर्वसत्त्वात्साक्षात्तेनैव सङ्गतौ । श्रुत्या व्यवस्थापितास्ते सा हि प्रकरणोत्तमा ॥ ८॥ व्रीहिधर्मा अवघातप्रोक्षणादयः, आज्यधर्मा उत्पवनावेक्षणादयः, सान्नाव्यधर्मा दोहनातञ्चनादयः । ते सर्वे फलहेतुतया दर्शपूर्णमासापूर्वेण संगच्छन्ते । अवान्तरापूर्व- स्य कस्यचिदभावात् । एकेनैवाऽपूर्वेण फलसिद्धावपूर्वान्तरस्य कल्पकाभावात् । फला- पूर्वप्रयुक्त्या चाऽनुष्ठीयमाना धर्मा यस्मिन् कस्मिन्नपि द्रव्येऽनुष्ठिताः फलापूर्वं जनय- न्त्येवेति साङ्कर्ये प्राप्ते- ब्रूमः-आग्नेयादयः षड्यागा भिन्नक्षणवर्तिनो विनश्वराः संभूय फलापूर्वं जनयितुं न शक्नुवन्ति । ततस्तज्जननसमर्थान्याग्नेयादिजन्यानि षडवान्तरापूर्वाणि कल्प्यानि । तेषु पुरोडाशद्रव्यकयागजन्यापूर्वं ब्रीहिधर्माणां प्रयोजकं, प्रत्यासन्नत्वात् । फलापूर्वं तु तेन व्यवहितम् । एवं आज्यधर्माणां सान्नायधर्माणां च तत्तद्र्व्यकयागजन्यावान्तरा- पूर्वेणैव साक्षात्सङ्गतिः। तथा सति तत्तदपूर्वप्रयुक्ताः संस्कारास्तत्तदपूर्वसाधनप्रकृतिद्रव्ये. ष्वेव व्यवतिष्ठन्ते । ननु दर्शपूर्णमासप्रकरणमत्र संस्काराणां विनियोजकम् । तच्च सर्व- प्रकृतिद्रव्यसाधारणमिति तदवस्थमेव साङ्कर्यम् । अथोच्येत तुषविमोकस्य व्रीहिष्वेव संभवात्तेष्वेवाऽवघातः, न त्वाज्यसान्नाय्ययोः । एवं विलापनमाज्य एव । दोहनादिकं सान्नाय्य एवेति । वाढम् ; दृष्टार्थानां धर्माणां व्यवस्थितत्वेऽप्यदृष्टार्थाः प्रोक्षणादयः संकीर्येरन्निति चेत्-मैवम् ; "ब्रीहीन् प्रोक्षति” “आज्यमवेक्षते” इत्यादिद्वितीयाश्रुत्या व्यवस्थापितत्वात् । श्रुतिश्च प्रकरणाद्वलीयसी । तस्माद्यवस्थिता धर्माः ।। इति चतुर्थं तेषामर्थाधिकरणम् ॥ ४ ॥ अथ पञ्चमं स्फ्याधिकरणम् ॥ ५ ॥ पञ्चमाधिकरणमारचयति- द्रव्यस्य स्फ्यकपालादेः साङ्कर्यं वा व्यवस्थितिः। यज्ञायुधत्वं सर्वेषां समं तेनाऽत्र सङ्करः ॥ ६ ॥ ऽपि त्रयो यागाः-आग्नेयः, ऐन्द्रदधियागः, ऐन्द्रपयोयागश्चेति । तेषां षण्णामपि यागा- नां सहानुष्ठितानामेव फलजनकत्वं श्रूयते-'दर्शपूर्णमासाभ्यां स्वर्गकामो यजेते, ति । एवञ्च तेषां सहैवाऽनुष्ठानेनाऽविनाभावसत्त्वात्परस्परमहाङ्गिभाव आपद्यतेति भावः। ,